SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १३४] [ पाण्डवचरित्रमहाकाव्यम् । स्वयंवर मण्डप रचना ॥ क्वचित्कार्तस्वरस्तम्भास्तस्मिन्नीलाश्मकन्दलैः । मेरुं विडम्बयामासुर्जम्बूराजिविराजितम् ॥१०२॥ क्वचिन्नीलमणिक्षोणीं परितोऽर्काश्मवेदिका । दधेऽम्भोधितटाश्लिष्टनिर्वृष्टाम्भोदविभ्रमम् ॥१०३॥ कर्केतना-ऽर्क-माणिक्य-वज्र-वैडूर्यकान्तिभिः । तस्य च्छन्नः करामर्शाद् द्वारदेशोऽध्यगम्यत ॥१०४॥ नीलाश्मद्वारशाखांशु श्रेणिरुत्पलकोमला । तत्र शाश्वतिकं दध्रे कदलीस्तम्भविभ्रमम् ॥१०५॥ सन्ध्याम्भोदसनाभीनि तत्प्रदेशेष्वनेकशः । शिल्पिनः पञ्चरूपाणि वितानानि वितेनिरे ॥१०६ ॥ तस्मिन्मुक्तावचूलेषु स्थानस्थानावलम्बिषु । पेतुर्मधुव्रतव्राताः पुष्पस्तबकशङ्किनः ॥१०७॥ तस्मिन्भान्ति स्म सङ्क्रान्तकान्तप्रालम्बमौक्तिकाः । पुष्पोपहारहारिण्यः सदैव मणिभूमयः ॥१०८॥ कुर्वतः सर्वतः स्वर्गिविमानश्रीविमाननाम् । नृपस्तं परितो मञ्चानुच्चकैर्निरमापयत् ॥१०९॥ विश्वकर्माऽपि निर्माणनैपुण्यमवलोकयन् । मन्ये तच्छिल्पिनामैच्छदन्तेवासित्वमात्मनः ॥ ११०॥ नानारत्नमयं तेषामेकैकमपि पश्यतः । द्रुपदे स्वर्गलुण्टाकवासना कस्य नाभवत् ॥१११॥ तानालोक्यात्मनः संपल्लोपाशङ्का पिशाचकी । भूमौ लुठन् रसत्युच्चैरद्यापि ध्रुवमर्णवः ॥११२॥ सुदुस्तपतप:क्लेशप्राप्तं नूनमवेक्ष्य तान् । अनिन्द्यत गतानन्दैः सुरैः स्वर्वासवैशसम् ॥११३॥ स्तम्भमुत्तम्भयामास हैमं मध्येस्वयंवरम् । पञ्चालभूपतिर्जम्बूद्वीपान्तर्मेरुविभ्रमम् ॥११४॥ १. विघ्नम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy