SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । स्वयंवरमण्डप - रचना ॥ ] सान्द्रशीततरच्छाये बकुलोर्वीरुहस्तले । द्रुपदादेशिनस्तेनुः पाण्डवं पटमण्डपम् ॥८९॥ त्रिभिर्विशेषकम् । स्थलेभ्योऽभ्यधिकं दुर्वासहजास्तरणा व्यधुः । प्रमोदमवरोधानामतिमुक्तकमण्डपाः ॥९०॥ स्मेरयन्तोऽधिकं दर्पं श्रियः साक्षादिवर्तवः । महीरुहः श्रयन्ति स्म सामन्ताः केऽपि कानपि ॥ ९१ ॥ तस्मिन् युधिष्ठिरः प्रष्ठकुमारकुलकैतवात् । कानने विहरन् रेजेऽनेकमूर्तिरिव स्मरः ॥९२॥ काम्पिल्यनाथः कल्याणीभक्तिः प्रीतेन पाण्डुना । अनुज्ञातोऽथ सानन्दमन्तर्नगरमाविशत् ॥९३॥ सोऽप्रीणयत्तथा पाण्डोरुपचारैश्चमूचरान् । निजस्य न यथाकामं स्मरन्ति स्म पुरस्य ते ॥९४॥ शिल्पिभिः कलयामास सर्वस्वैर्विश्वकर्मणः । सधर्माणं सुधर्मायाः स स्वयंवरमण्डपम् ॥९५॥ महानीलमयी तत्र बभार तलमेदिनी । प्रतिच्छायाच्छलादन्तर्द्वितीयमिव मण्डपम् ॥९६॥ नीलाश्मकुट्टिमे तस्मिञ्श्वेतसोपानभूर्बभौ । कालिन्दीशङ्कयोद्वीचिरारोहन्तीव जाह्नवी ॥९७॥ स्तम्भाः स्वर्णमयास्तस्मिन्नश्मगर्भमयक्षितौ । वातोत्थयमुनापद्मपांसुदण्डनिभा बभुः ॥९८॥ तस्मिन्स्वयंवरालोककौतुकास्त्रिदिवाङ्गनाः । प्रतिस्तम्भमुपारूढाः शालभञ्जीनिभा बभुः ॥९९॥ नीलवेदीपरिक्षिप्ता क्वचिदिन्दूपलक्षितिः । वनीवलयितक्षीरनीरधिश्रियमश्नुते ॥१००॥ [ १३३ तस्मिन्हरिन्मणिस्तम्भाः पद्मरागप्रभाञ्चिताः । लीनां(लां) नीलत्विषः क्वापि तन्वते पीतवाससः ॥१०१॥ १. पाण्डोः संबंधिनं । २. दूर्वा एव स्वाभाविकम् आस्तरणं येषु ते । ३. कृष्णस्य । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy