SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । काम्पिल्यस्य नीकटागमनम् ॥] [१३१ बलौघः पाण्डुजन्मा च द्रौपदी च पताकिनी । अयुज्येतां तदा तावद्भाव्यर्थपिशुनाविव ॥६३॥ ते वाहिन्यौ तदाऽन्योन्यमेकीभावमुपागते । चकासामासतुर्गङ्गा-पतङ्गतनये इव ॥६४॥ पदातौ द्रुपदे जाते सन्त्यज्य जयकुञ्जरम् । उज्झाञ्चकार करटिप्रकाण्डं पाण्डुभूपतिः ॥६५॥ तौ वितत्य भुजौ प्रीत्या सस्वजाते यशस्विनौ । अन्योन्यं विकटं वक्षो मिमानाविव वक्षसा ॥६६॥ वालवायज-नीलाश्म-कुरुविन्दकरम्बितम् । बिडौजसा जितेनेव प्रतापैरुपदीकृतम् ॥६७।। रथं पवनजङ्घालोत्तालकाम्बोजवाजिनम् । उपानिनाय काम्पिल्यकाश्यपीनाथसारथिः ॥६८॥ युग्मम् । दत्तहस्तावलम्बस्तं स्वयं काम्पिल्यभूभुजा । पुर: प्रेङत्पताकाङ्कमारुरोह कुरूद्वहः ॥६९॥ क्रान्तविश्वस्य तेजोभिरुष्णरश्मेरिवारुणः । चकार कुरुनाथस्य सारथ्यं पृथिवीपतिः ॥७०॥ प्रियालापमिवान्योन्यं प्रीत्या ज्ञातेयजातया । कुर्वाणे किङ्किणीक्वाणैस्तयोश्छत्रे विरेजतुः ॥७१॥ दुन्दुभिध्वनिभिस्तारैरवश्यमुभयैरभूत् । ब्रह्माण्डभाण्डनिर्भेदशङ्की पङ्केरुहासनः ॥७२॥ ईक्षाम्बभूव काम्पिल्यमावासैरवनीभुजाम् । परीतं परितः(तं) प्रीत्या पाण्डुः शाखापुरैरिव ॥७३॥ तरङ्गहस्तविन्यस्तविकस्वरसरोरुहा ।। मुदाऽर्घमुत्क्षिपन्तीव ददृशे तेन जाह्नवी ॥४॥ उदारमञ्जरीसारसहकारप्रियङ्करे । विकासिबकुले फुल्लमल्लिकामोदमालिनि ॥७५।। १. द्रुपदनृपसंबन्धिनी । २. तदाऽतीवभाव्य० प्र० । ३. सूर्यपुत्री-यमुना इत्यर्थः । ४. वैडूर्यमणिः । ५. रत्नविशेष । ६. ज्ञातित्वेन जातया । ७. ब्रह्मा । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy