SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १३०] [ पाण्डवचरित्रमहाकाव्यम् । कम्पिलपूरमार्गवर्णनम् ॥ अभिरामगुणग्रामगरीयान्नगरश्रियम् । अवेक्षमाणः स प्राप प्रतोलीमलद्युतिः ॥५०॥ अन्योन्यजङ्घासङ्घट्टसीदन्निखिलसादिका । दूरत्रस्तजनोर्जस्विगर्जत्तुङ्गमङ्गजा ॥५१॥ जाह्नवीव तुषाराद्रिसद्मपद्महूदोदरात् । निर्जगाम चमूः पाण्डोः शनकैः पुरगोपुरात् ॥५२॥ युग्मम् । कुरूणां प्रवरैच्छायाप्रवालफलकुड्मलैः । प्रथयामासुरातिथ्यं जाह्नवीतीरभूरुहः ॥५३॥ सैनिकानां नगोत्तुङ्गवीचिसञ्चारमन्थरैः । स्वेदाम्बुततिराचेमे गाङ्गेयैः पवनोर्मिभिः ॥५४॥ हैयङ्गवीनगोमुख्यैग्रमीणोपायनैरसौ । मुमुदे मेदिनीपालः कालः प्रत्यर्थिनां पथि ॥५५॥ रथाश्वे-भादिभिः सीमसामन्तानभ्युपस्थितान् । स पश्यन्नन्दयामास प्रसादस्निग्धया दृशा ॥५६॥ मनोहरसर:शैलकेलिदुर्ललिता क्रमात् । कौरवी दूरमध्वानमतिचक्राम सा चमूः ॥५७॥ काम्पिल्यस्याथ सीमानमाससाद कुरूद्वहः । प्रमोदस्तु विवेशान्तरुत्फुल्लजनसूचितः ॥५८॥ तमभ्यगच्छदुत्सर्पिबलोर्मितुमुलैर्दिशः । द्रुपदो बधिरीकुर्वन् मृगाङ्कमिव नीरधिः ॥ ५९ ॥ अम्भोदरवगम्भीरः परस्परचमूचरैः । दूरमाकर्णयामा वाहिनीतुमुलध्वनिः ॥६०॥ तुरङ्गमखुरक्षुण्णः क्षोणिरेणुः परस्परम् । सस्वजे प्रणयेनेव सैन्ययोरुभयोरपि ॥ ६१ ॥ द्वयोरपि वरूथिन्योर्दुन्दुभिध्वनिभिस्तयोः । स्वैरं दिगन्तविश्रान्तैः प्रतिशब्दायितं मिथः ॥६२॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy