SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । सभायां द्रुपद दूतागमनम् ॥] गाङ्गेय- धृतराष्ट्रादिगुरुवर्गोऽपि गौरवात् । अलञ्चक्रे तदास्थानमानन्दभरमेदुरः ॥११॥ यथास्थानमथासीने सामन्तामात्यमण्डले । स्तुवत्सु शो विश्वश्रोत्रानन्दिषु बन्दिषु ॥१२॥ पुष्पावचूलरोलम्बकदम्बध्वनिडम्बरैः । मुहुर्निह्वथमानासु गाथकी-कलगीतिषु ॥१३॥ नानासूक्तीः कवीन्द्रेषु रसभङ्गितरङ्गिताः । उद्गिरत्सु जनश्रोत्रपटुपीयूषवर्षिणीः ||१४|| विशारदेषु पुरतो भरतादिमहीभुजाम् । प्रथयत्सु कथास्तथ्या नितान्तमेघमर्षणीः ||१५| अभ्येत्य भूमिन्यस्तैकजानुरानम्य भूपतिम् । मूर्धन्यञ्जलिमाधाय प्रतीहारो व्यजिज्ञपत् ॥१६॥ देव ! सेवककल्पद्रो ! द्रुपदस्य महीपतेः । आकारविदिताकूतो दूतस्ते द्वारि वर्तते ॥१७॥ जाह्नवेय- धृतराष्ट्र - विदुराणामथाशयम् । ज्ञात्वोर्वीपतिरादिक्षत् तत्प्रवेशाय तं भ्रुवा ॥१८॥ आक्षिप्तचक्षुरालानलालितैः केलिलोलुपैः । सविभ्रमा भ्रमातङ्गबन्धुभिर्गन्धसिन्धुरैः ॥ १९ ॥ वनायुदेश्यैर्देवाश्वदेशीयैर्मन्दरोदरे । भृशमोजस्विभिः क्लृप्तनेत्ररङ्गस्तुरङ्गमैः ॥२०॥ सङ्गीतरङ्गनि:सङ्गमृदङ्गध्वनिलासिभिः । हृष्यन्नजस्रविस्रम्भादलोलैः केलिकेकिभिः ॥२१॥ वपुर्विसारिसौरभ्यसम्भावितनभोऽन्तरे । निविष्टदृष्टिरुत्फाले केलिकस्तूरिकामृगे ॥२२॥ स दूतः पूतवाङ्निन्दन् संसदं शातमन्यवीम् । उपतस्थे नृपास्थानं प्रतीहारपुरःसरः ॥२३॥ पञ्चभिः कुलकम् । [ १२७ १. रोलम्बा - भ्रमराः । २. पापक्षयकारिणीः । ३. ऐरावण । ४. वनायुदेशे - अरबस्थाने भवाः तैः । ५. अश्वशालामध्ये । ६. दालोलै प्रतिद्वय । ७ इन्द्रसंबन्धिनीम् । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy