SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२६] [पाण्डवचरित्रमहाकाव्यम् । पाण्डोः सभायामागमनम् तस्य वर्णनम् च ॥ 5 चतुर्थः सर्गः ॥ अथान्यदाऽवदातश्रीः श्रीमान्पीनांसकुट्टिमः । खण्डितारातिदोष्काण्ड: पाण्डुः संसदमासदत् ॥१॥ हिरण्मयमयं भेजे शारदाम्भोधरद्युतिः । भद्रासनं शशिक्रान्तसुमेरुशिखरोपमम् ॥२॥ दधार रत्नकेयूरे स प्रभाऽरुणिताम्बरे । वमभ्यामिव बाहुभ्यां प्रतापं मूत्ततां गतम् ॥३॥ अरातिकीर्तिसर्वस्वमावत्यैव विनिर्मितम् । स बभारोज्ज्वलं हारमुर:स्थलविलम्बिनम् ॥४॥ शिरस्युवाह पीतानां विपक्षमहसामिव । अमान्तमन्तः संदोहं स रत्नमुकुटच्छलात् ॥५॥ कपोलदर्पणे द्रष्टमात्मीयकमनीयताम् । विकर्तनाविवायातौ स दधौ स्वर्णकुण्डले ॥६॥ जयप्रशस्तिमेतस्य चामरग्राहिणीगणाः । कङ्कणौघरणत्कारकैतवेन वितेनिरे ॥७॥ हारयष्टिं महीपृष्ठे तस्यैव विशदं यशः । पुञ्जयन्तः क्षितीशास्तं प्रणम्योपाविशन्पुरः ॥८॥ मणिकोटीरसंक्रान्तमूर्तिरात्तैकबान्धवः । उह्यमान इव भेजे शिरोभिः सोऽवनीश्वरैः ॥९॥ स्त्यानीभूयं गतैर्मूर्तिमद्भिः कामरसैरिव । निर्मिताः परितो वारनार्यस्तं पर्यवृण्वत ॥१०॥ 15 १. सूर्यो । २. कोटीर-मुकुट ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy