SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [१२५ तृतीयः सर्गः । सभा विसर्जनम् ॥] भुजोत्कर्षाच्च बीभत्सोः कुमाराणां च मत्सरात् । आनन्दश्च विषादश्च समं पाण्डोरभूद्वयम् ॥४९१॥ धृतराष्ट्र-कृप-द्रोण-गाङ्गेयादिभिरन्वितः । विसृज्य संसदं पाण्डुनिजमन्दिरमासदत् ॥४९२॥ कृतकर्णस्तुतिः कश्चित्कश्चित्पार्थस्तवोल्बणः । कश्चिद्दुर्योधनस्तोता जनः स्वं स्वं गृहं ययौ ॥४९३॥ इतरेतररन्ध्रवीक्षिणस्ते विनयाच्छादितमत्सराः कुमाराः । सकलासु कलासु केलियोग्या, मिलिता एव वितन्वते स्म नित्यम् ॥४९४॥ [ ] इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये भीमदुर्योधनादिजन्मकुमारकलारोपणास्त्रदर्शनवर्णनो नाम तृतीयः सर्गः ॥३॥ 10
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy