SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [१२३ तृतीयः सर्गः । कर्ण वृत्तान्तः ॥] गृहे नीत्वा पुरः पत्न्यास्तामुद्धाट्य तदन्तरे । सकुण्डलं स्फुरत्कान्ति वचनागोचरश्रियम् ॥४६७॥ राजकुञ्जरदर्पोष्मध्वंससम्भाविताकृतिम् । एकमालोकयं बालं सिंहार्भकमिवोद्भटम् ॥४६८॥ (युग्मम्) तमालोक्य कृतालोकं पत्नी राधामथाभ्यधाम् । अनपत्या प्रिये ! सम्प्रत्यनेन भव पुत्रिणी ॥४६९॥ इत्युक्ता साऽपि मामाह प्राणेश ! घुसृणारुणे । जाते प्राच्या दिशो वक्त्रे स्वप्नोऽद्य ददृशे मया ॥४७०॥ जानामि भानुमानेत्य सप्रसादं जगाद माम् । वत्से ! सम्पत्स्यते तेऽद्य शौण्डीरतिलकः सुतः ॥४७१॥ तं दृष्ट्वा दधती हर्षमुज्जागरमजागरम् । तदैव च त्वयाऽनेन दिष्ट्या पुत्रेण वर्धिता ॥४७२॥ इत्याख्याते शुभे स्वप्ने प्रियायाः पुलकस्पृहः । मञ्जूषातः समाकृष्य तमङ्के बालमक्षिपम् ॥४७३॥ कर्णस्याधः करं कृत्वा सुतः प्राप्तोऽयमित्यसौ । प्रापितः कर्ण इत्याख्यां तनयः सुदिने मया ॥४७४।। स्वप्ने रविवितीर्णत्वादपरं रविभूरिति । । अस्योद्यद्भागधेयस्य नामधेयमजायत ॥४७५॥ भवन्ति स्म गुणा बाल्यादस्मिन्नस्मत्कुलातिगाः । पङ्के पड़ेरुहो वृद्धिः सौरभं तु स्वतोभवम् ॥४७६॥ असौ राजकुले क्वापि लब्धजन्मा न संशयः । इति कुन्दोज्ज्वलैरस्य गुणैरनुमितं मया ॥४७७॥ असौ मद्वंशजत्वेन यदधिक्षिप्यते मुहुः । काकोलकुलजत्वेऽपि कुत्सनं कोकिलस्य तत् ॥४७८॥ 15 20 १. कृतप्रकाशम् । २. कुकमारुणे । ३. षान्त० प्रति । ४. द्रोणकाकः-काकजातिविशेषः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy