________________
१२२]
[पाण्डवचरित्रमहाकाव्यम् । कर्णस्य वृत्तान्तः ॥ स्रस्तोत्तरीयसिचयः प्रफुल्लनयनोत्पलः । कर्णस्य जनकोऽभ्यागात्तत्रातिरथिसारथिः ॥४५५॥ युग्मम् । कर्णः पितरमालोक्य दूरादुत्सृज्य कार्मुकम् । पपात पादयोस्तस्य दैवतं हि परं पिता ॥४५६॥ अङ्गराज्याभिषेकार्द्रमानन्दाश्रुकणोदकैः । पुनरुक्तं शिरः सोऽपि तनूजस्याभ्यषिञ्चत ॥४५७॥ आलिङ्गति स्म सर्वाङ्ग सुतमुत्थाप्य सारथिः । उन्मीलत्पुलको मूनि भूयोभूयश्चुचुम्ब च ॥४५८॥ विज्ञाय विज्ञतिलकस्तमित्थं सारथेः सुतम् । कर्णमभ्यर्णमागत्य वदति स्म वृकोदरः ॥४५९॥ सूतात्मज ! न पार्थेन कथञ्चिद्योद्धमर्हसि । गृह्यतां प्राजनं चापमपहाय कुलोचितम् ॥४६०॥ अङ्ग ! त्वमङ्गसाम्राज्ययोग्योऽसि न कथञ्चन । मृगारातिपदे हन्त गोमायुः किमु जायते ॥४६१॥ इति व्याहरति स्वैरं भीमे ! भीमभुजोर्जिते । आगत्य रभसाद् भ्रातृमध्यादुर्योधनोऽभ्यधात् ॥४६२॥ वीराचारानभिज्ञोऽसि भीम ! यत्कुलमीक्षसे । चुलुकाऽऽचान्तसप्ताब्धेः कुलं कुम्भोद्भवस्य किम् ? ॥४६३॥ तत्त्वान्तरं किमप्येतत्कर्ण इत्युदितं भुवि । दिव्याङ्गलक्षणं सूती न सूते सुतमीदृशम् ॥४६४॥ अथातिरथिराह स्म साधु साधु सुयोधन ! । असौ मे नाङ्गजः सूनुर्यथा प्राप्तस्तथा शृणु ॥४६५।। त्रिःस्रोतःस्रोतसि पुरा प्रभाते गतवानहम् । अपश्यं रत्नमञ्जूषां पुण्यलक्ष्मी निजामिव ॥४६६॥
१. अश्वनोदनयष्टिः । २. अगस्त्यमुनेः । ३. सारथिभार्या ।