SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [१२१ तृतीयः सर्गः । कर्णस्य राज्याभिषेकः ॥] किं कुलेन पितृभ्यां वा ? गौरवं हि गुणैर्नृणाम् । अधिरोहति मूर्धानमरविन्दं किमन्वयम् ॥४४२॥ रणः शौण्डीरिमापेक्षः कुलं न क्वाप्यपेक्षते । शौण्डीरस्तबलात्कर्णः फाल्गुनं योधयिष्यति ॥४४३।। किं नाम सोऽपि शौण्डीर: ? क्षमते यः परानपि । न नाम सहते सिंहो गर्जाभिः स्फूर्जतो घनान् ॥४४४॥ अथ जल्पथ ना राज्ञा विधत्ते युद्धमर्जुनः । राज्ये कर्णस्तदङ्गानामभिषिक्तो मयाऽधुना ॥४४५॥ इत्युदीर्य कृपाचार्यप्रभृतीन्धृतराष्ट्रसूः । कर्णराज्याभिषेकाय तत्कालमुपचक्रमे ॥४४६।। पुरोहितमथाहूय कर्णं स्वर्णासनस्थितम् ।। स्वभुक्ते सोऽङ्गसाम्राज्येऽभ्यषिञ्चत् तीर्थवारिभिः ॥४४७।। निष्कलङ्कमृगाङ्काभं तस्य च्छत्रमधार्यत । अर्जितं निजदोर्दण्डैर्यशः स्वमिव पिण्डितम् ॥४४८॥ प्रकीर्णकानि कर्णस्य धूयन्ते स्म वधूजनैः । अभिषेक्तुं तमायाता गङ्गोर्मय इवाम्बरात् ॥४४९॥ चिरं जयाङ्गराजेति शब्दोद्गारपुरःसरम् ।। तस्य भोगावली पेठुर्बन्दिनो विश्वनन्दिनः ॥४५०॥ कर्णः प्रत्युपकाराय ययाचेऽथ सुयोधनम् । स्थेमानमर्थयांचक्रे सोऽपि सौहार्दसम्पदः ॥४५१॥ सौहार्द हि कियन्मानं ? प्राणा अपि तवैव मे । इत्युक्तवन्तं राधेयं मुदाऽश्लिष्यत्सुयोधनः ॥४५२॥ ततः प्राप्ताङ्गसाम्राज्यः पुनरादाय कार्मुकम् ।। रणारम्भाय राधेयो दूरादाह्वास्त फाल्गुनम् ॥४५३॥ साम्राज्यमङ्गदेशानामुपश्रुत्यात्मजन्मनः । स्मरदानन्दसन्दोहविसंस्थुलपदक्रमः ॥५४॥ १. जल्पवता राज्ञा इति प्रत्यन्तर । २. चामराणि । ३. स्तुतिम् । ४. सुयोधनः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy