________________
१२०]
10
[पाण्डवचरित्रमहाकाव्यम् । कर्णार्जुनयोः क्रीडा ॥ कर्णस्ततोऽब्रवीत्कोपात्पार्थ ! केयं बिभीषिका । गृहाणास्त्रं हराम्येष सर्वं गर्वं तवाधुना ॥४२९॥ ततो द्रोणाभ्यनुज्ञातः प्रगृह्य सशरं धनुः । युद्धश्रद्धाय काय कपिकेतुरतिष्ठत ॥४३०॥ तयोः समरसंरम्भदर्शनोत्सुकचेतसाम् । आसीत्कुसुमितेव द्यौर्विमानैस्त्रिदिवौकसाम् ॥४३१॥ तदीयसमरारम्भविलोकनकुतूहली । अनूरुसारथिस्तस्थौ स्थिरीकृतरथः क्षणम् ॥४३२॥ तौ प्रजाभिरदृश्येतां रणायान्योन्यसम्मुखौ । विन्ध्याद्रिविपिनोत्सङ्गे मत्तौ दन्तावलाविव ॥४३३॥ अभूवन्कर्णतः केचित्केचिदर्जनतः पुनः । खेचरामरमानां तदा द्वैधमजायत ॥४३४॥ पुरः कर्णस्य को जिष्णुरिति दुर्योधनादयः । कः कर्णोऽग्रेऽर्जुनस्येति दधुर्भीमादयो मुदम् ॥४३५॥ कुन्ती तु कुन्तभिन्नेव तनयस्नेहविक्लवा । मूर्छान्धकारविधुरा पपात जगतीतले ॥४३६॥ तां तथा विदुरः प्रेक्ष्य प्रेष्याभिश्चन्दनद्रवैः । क्षणादाश्वासयामास शीतैश्च व्यजनानिलैः ॥४३७॥ विषमैव गतिः कामं समरस्येति कातरम् । पाण्डोर्वदनमालोक्य राधेयमवदत्कृपः ॥४३८॥ कुन्तीकुक्षिसरोहंस-कुरुवंशैकमौक्तिकम् । पाण्डुहेमाद्रिकल्पद्रुर्बीभत्सुविदितोऽस्ति नः ॥४३९॥ तत्त्वमप्यात्मनो ब्रूहि मातरं पितरं कुलम् । ताम्यतस्तव चेद्वाहू रणाय कपिकेतुना ॥४४०॥ तां कृपस्य कृपाणाग्रशितामाकर्ण्य भारतीम् । झटित्युत्थाय संरम्भादभाषत सुयोधनः ॥४४१॥ १. अर्जुनः । २. सूर्यः । ३. नूतनस्ने० प्रति० । ४. कर्णम् ।
25