________________
5
तृतीयः सर्गः । कर्णस्य प्रशंसा ॥]
[११९ भीमाकृतिरपि प्रांशुः सासि-तूणीर-कार्मुकः । काञ्चनं कवचं बिभ्रत्सुमेरुरिव जङ्गमः ॥४१६॥ बीभत्सुं प्रति बीभत्से क्षिपन्गुञ्जारुणे दृशौ । रङ्गमध्यमथाध्यास्त कर्णः शौर्यमहार्णवः ॥४१७॥ चतुर्भिः कलापकम् । ततः कर्णः कृपाचार्य द्रोणं च द्रुहिणोपमम् । ननाम नामितारातिर्नीतिप्रह्वान्तराशयः ॥४१८॥ ततः सगर्वं सोऽवोचत्पार्थ माऽनेन कर्मणा । मंस्थाः कर्मठमात्मानं मामालोकय सम्प्रति ॥४१९॥ अथ पार्थो यथा यद्यत्कर्म निर्मितवान्पुरा । कर्णः सातिशयं तत्तत् प्रथयामासिवांस्तथा ॥४२०॥ ततः सहर्षमुत्थाय धृतराष्ट्रत्मजाग्रणीः । कर्णं निबिडमालिङ्ग्य प्रणयादित्यवोचत ॥४२१॥ कर्ण ! त्वमेकवीरोऽसि त्वं त्रिलोकीविभूषणम् । त्वं धनुर्वेदविद्यायाः परां सीमानमीयिवान् ॥४२२॥ त्वमेव वैरिदोर्दर्पसम्पदां पश्यतोहरः । त्वमेव कीर्तिनिर्वासडिण्डिमः सर्वधन्विनाम् ॥४२३॥ इदं राज्यमिमे प्राणा इमाः कुरुकुलश्रियः । सर्वं त्वदीयमेवैतब्रूहि येन प्रयोजनम् ॥४२४॥ कर्णोऽप्युवाच मेऽस्त्येव समस्तं सुहृदि त्वयि । प्रार्थये केवलं भूयात्सौहार्द ते मयि स्थिरम् ॥४२५।। किं तु पार्थस्य दोर्दण्डकण्डूतिज्वरितात्मनः । इच्छन्ति द्वन्द्वयुद्धेन भुजो भिषजितुं मम ॥४२६॥ गिरमाकर्ण्य कर्णस्य तामधिक्षेपपांसुलाम् । हुतो वह्निरिव क्रोधाज्ज्वलितः फाल्गुनोऽभ्यधात् ॥४२७॥ कर्ण ! निर्नाम ! निर्मज्जन् मदीयशरसागरे । अस्त्रोदकैर्निजस्त्रीणां दृशः किं प्लावयिष्यसि ? ॥४२८॥
15
25
. १. ब्रह्मोपमम् । २. चौरः । ३. अधिक्षेपेण-तिरस्कारेण पांशुलां सपापाम् ।