SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । कर्णस्य-कथनम् ॥] [११७ इत्यानन्दाज्जनैरुक्ताः शृण्वत्याः सर्वतो गिरः । प्रस्रवेण समं कुन्त्याः पेतुः प्रीत्याऽश्रुविपुषः ॥३९०॥ (त्रिभिर्विशेषकम्) धृतराष्ट्रस्य पाण्डोश्च पुलकच्छद्मना बहिः । फाल्गुनं पश्यतोर्जाताः शुभस्नेहाङ्करा इव ॥३९१॥ दिदृक्षयेव पार्थस्य लोकवक्त्रेषु राकया । एत्याऽमावस्यया तस्थे गान्धारीवदने पुनः ॥३९२॥ संसज्जनोत्थितैस्तैस्तैरर्जुनस्तुतिघट्टनैः । दिदीपे कोपसप्ताचिः सुयोधनशमीतरौ ॥३९३॥ कर्णस्तु सर्वशस्त्राब्धिकर्णधारभुजोर्जितः । सार्जुनं तं जनं हन्तुमियेष प्रस्तुतस्तुतिम् ॥३९४॥ कलितोद्दण्डकोदण्डमालीढस्थानमास्थितः । किरीटी ददृशे साक्षाद्धनुर्वेद इवाङ्गवान् ॥३९५॥ जनस्याभून्मुदा तूर्यनिनादैरभिनन्दितः । ब्रह्माण्डभाण्डभेदीव कलः कोलाहलो महान् ॥३९६।। उपजग्मुषि विश्रान्तिमथ तस्मिन् कथञ्चन । अस्त्रकौशलमात्मीयं दर्शयामास फाल्गुनः ॥३९७।। लक्ष्ये चले स्थिरे स्थूले लघीयसि च लाघवम् । के नाम विस्मयं नापुः पश्यन्तः सव्यसाचिनः ? ॥३९८॥ दृढानि दृढमुष्टित्वाद्दुर्भेद्यान्यपि भिन्दिना । जिष्णुना वैरिवारस्य दृढं चेतोऽप्यभिद्यत ॥३९९॥ तस्मिन्बहूनि चित्राणि विचित्राणि वितन्वति । चित्रीयन्ते स्म के नाम न माद्यद्दोर्मदा अपि ॥४००॥ शरग्रहणसंधानसमाकर्षणमुक्तयः । शतशो लक्ष्यभेदाश्च तस्यैक्ष्यन्त समं जनैः ॥४०१॥ न यत्र निपतन्ति स्म नायना अपि रश्मयः । लक्ष्यं तत्राप्यणीयोऽपि भिन्दन्ति स्मार्जुनेषवः ॥४०२॥ 25 १. अर्जुनम् । २. सुतस्ने० प्रति० । ३. संसत्-सभा । ४. नयनसंबंधिनः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy