________________
तृतीयः सर्गः । भीमदुर्योधनयो: परीक्षा ॥ ]
एकां लक्ष्ये निचिक्षेप निजां दृष्टिं सुनिश्चलाम् । तस्मिन्विस्मयनिष्पन्दां कोटिसंख्यां जनः पुनः ॥ ३६४ ॥
असावचिन्त्यमाहात्म्यप्रह्वीकृतजगत्त्रयः । असावशेषशौण्डीरचूडारत्नमनुत्तरम् ॥३६५॥
असावनुपमन्यायपथैकपथिकोत्तमः ।
असावनन्यसामान्यसत्यपूतवचः क्रमः ॥३६६॥ इत्थं लोककृतां श्लाघां श्रुत्वाऽतिप्रीतचेतसः । पुण्डरीकोपमाः पाण्डोर्दृशः पेतुर्युधिष्ठिरे || ३६७|| त्रिभिर्विशेषकम् ।
रथी सोऽथ रथारूढः प्रौढविक्रमसंक्रमः । निःशेषं दर्शयामास शस्त्रकौशलमात्मनः ॥३६८॥ अथ तौ नित्यसंसृष्टौ दुर्योधनवृकोदरौ । गदायुद्धाय सन्नद्धौ रङ्गोत्सङ्गेऽवतेरतुः ॥३६९॥ रङ्गेण रङ्गगगने सूर्याचन्द्रमसाविव । तौ प्रदक्षिणचारीभिरभितश्चेरतुश्चिरम् ॥३७०॥ तौ विस्मयेन पश्यन्तस्तदा दिविषदो दिवि । फलमाकलयामासुर्नेत्रयोर्निर्निमेषयोः ॥३७१ ॥ दुर्योधने च भीमे च पक्षपातात्पृथक्पृथक् । एकाऽपि परिषत्तत्र द्वैधीभावमुपाययौ ॥३७२ ॥ धैर्यं दुर्योधनस्याहो ! भीमस्याहो सुसौष्ठवम् । इति लोकप्रशंसाभिः शब्दाद्वैतं तदाऽभवत् ॥ ३७३॥ ततो हृदि स्थिते भीमप्राणनाशोपदेशकृत् । गुरुर्दुर्योधनस्योच्चैर्जागरामास मत्सरः ॥३७४॥ ततो लोचनयोः किञ्चिद् गान्धारीतनुजन्मनः । क्रोधा श्रेयाशज्वालेव प्रादुरास पिशङ्गता ॥ ३७५॥ धृतराष्ट्रतनूजस्य क्रोधान्धस्य शरीरतः । स्वेदबिन्दुव्रजव्याजान्निर्ययुर्मत्सरोर्मयः ॥३७६॥
१. संहृष्टौ – पाठः । २. आश्रयं अश्नाति इति (दहनेन विनाशकृत्) आश्रयाशः
[ ११५
अग्निः ।
5
10
1115
20
25