SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 ११४] [ पाण्डवचरित्रमहाकाव्यम् । शस्त्रपरीक्षा ॥ दिने गुरुसमादिष्टे दूताहूता महीभुजः । एत्य मञ्चानलञ्चक्रुर्गिरीनिव मृगारयः ॥३५१॥ सहितो धृतराष्ट्रेण जाह्नवीयेन चान्वितः । प्रेक्षागारमगात्पाण्डुः पुत्रशिक्षादिदृक्षया ॥३५२॥ कुन्ती निजतनूजानां विक्रमालोकनोत्सुका । सत्यवत्यादिभिस्तत्र समं श्वश्रूभिरायौ ॥ ३५३ ॥ कुमारास्त्रपरीक्षायां क्ष्माचर - व्योमचारिणाम् । रेजे समाजो निर्व्याजप्रीति - संमीलितस्तदा ॥ ३५४ ॥ द्रोणाचार्यकृपाचार्यौ विविधायुधपाणिभिः । तैरानुपदिकैः सार्धं रङ्गे प्राविशतां तदा ॥३५५॥ युधिष्ठिरं तथा भीमकर्णदुर्योधनार्जुनान् । मुक्त्वाऽन्येषां गुरुः प्रादादनुज्ञां श्रमदर्शने ॥ ३५६॥ केचित्तेषु कुमारेषु गजाश्वाद्यधिरोहिणः । कोदण्डे दर्शयामासुर्निजं शिक्षासु कौशलम् ॥३५७॥ तेषामाबाणसंधानाल्लक्ष्यभेदावधेरपि । एकमेव जनः कालं कलयामासिवांस्तदा ॥ ३५८॥ सञ्चरत्सु यथालक्ष्यं तद्बाणेषु नभोऽङ्गणे । भयेन सङ्कुचन्ति स्म सर्वतः प्रेक्षिणो जनाः ॥३५९॥ राजन्यतनयोपज्ञे लक्ष्यभेदे पदे पदे । साधु साध्विति लोकस्य कलः कलकलोऽभवत् ॥३६०॥ स्थिरत्वं सौष्ठवं केचिल्लाघवं दृढमुष्टिताम् । आश्रित्य दर्शयामासुस्ते खड्गादिषु कौशलम् ॥३६१॥ अमुक्ते यन्त्रमुक्ते च पाणिमुक्तेऽप्यदर्शयन् । समस्तेऽप्यायुधे किञ्चिद् गुरुशिक्षां विचक्षणाः ॥३६२॥ अथोपतस्थे रङ्गान्तर्गुर्वादिष्टो युधिष्ठिरः । लोकश्च तत्र चिक्षेप स्त्रग्दामसदृशो दृशः ॥ ३६३॥ १. प्रेक्षागेहम्, प्रति० । २. अन्वागच्छद्भिः । ३. राजपुत्रप्राक्प्रारम्भे ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy