________________
5
10
15
20
25
११२]
[ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्य राधावेधोपदेशः ॥
यथार्थमिदमासाद्य गुरोरुत्तरमर्जुनः ।
मेने प्रत्युपकाराय प्राणानपि न किञ्चन ॥ ३२५॥ अथागत्य विनीतांस्ताञ्शिष्यानध्यापयद् गुरुः । अमुक्ते करमुक्ते च शस्त्रे तेऽपि व्यधुः श्रमम् ॥३२६॥ अशिक्षेतां गदायुद्धं भीमदुर्योधनौ पुनः । कलापारंगमैर्जातं कुमारैरखिलैः क्रमात् ॥३२७॥ शिखिपिच्छमवस्थाप्य तालपादपमूर्धनि । द्रोणाचार्योऽथ कोदण्डे तानारेभे परीक्षितुम् ॥३२८॥ लक्ष्याभिमुखमालीढं स्थानमास्थाय तिष्ठतः । शरस्तु मद्गिरा मोच्यो गुरुस्तानित्यशिक्षयत् ॥ ३२९॥ मण्डलीकृत्यकोदण्डं गुर्वादेशानुसारतः । निक्षिप्तचक्षुषो लक्ष्ये ते तस्थुः स्थिरचेतसः ||३३०|| प्रत्येकं तेऽन्वयुज्यन्त गुरुणा किमु पश्यथ । मां च वृक्षं च लक्ष्यं च बन्धूनेतांश्च पुत्रकाः ! ॥३३१॥ तेऽप्यभाषन्त पश्यामस्त्वां चैनं च महीरुहम् । सर्वांश्च बान्धवानेतान् लक्ष्यं चैतत् पुरःस्थितम् ॥३३२॥ तेन तद्वचसाऽऽचार्यः सव्यथोऽन्तरचिन्तयत् । अजात्यरत्नवदमी योग्या नोत्तरकर्मणः ॥ ३३३॥ अथ पार्थं व्यवस्थाप्य तथैव गुरुरादिशत् । प्रेक्षे चन्द्रकमेवाहं पिच्छेऽस्मिन्निति सोऽवदत् ॥३३४॥ तामर्जुनगिरं श्रुत्वा निश्चिक्ये मुदितो गुरुः । राधावेधोपदेशस्य योग्योऽयमिति चेतसि ॥ ३३५॥ अन्यदा स्वर्णदीतोये मज्जनाय गुरुर्ययौ । कुमारा अपि सर्वेऽपि सुविनीतास्तमन्वयुः ||३३६॥ मज्जन्तमन्त:सलिलं गम्भीरिमगुरुं गुरम् । जङ्घाकाण्डेऽथ जग्राह ग्राहः कश्चिदृढग्रहः ॥ ३३७||
१. तानारोप्य इति प्रत्य० पाठः । २. गंगानदीजले ।