SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । एकलव्यस्याद्वितीया गुरुभक्तिः ॥ ] इति जल्पन्तमानन्दात्तं सरोमाञ्चकञ्चुकम् । अतुच्छपार्थवात्सल्यविवशो गुरुरब्रवीत् ॥३१२॥ पल्लीन्द्रपुत्र ! चेदस्मि गुरुरङ्गीकृतस्त्वया । तदत्रार्थे कृतार्थेन दीयतां गुरुदक्षिणा ॥३१३॥ एकलव्यस्तदाकर्ण्य विकस्वरमुखाम्बुजः । तं बभाषे प्रभो ! ब्रूहि वस्तु किं तेऽस्तु दक्षिणा ? ||३१४|| विभवो वा शिरो वाऽस्तु मदीयं तव दक्षिणा । एतेनाप्याधमर्ण्यात् ते न विमुच्येय निश्चितम् ॥३१५॥ इत्युक्तो गुरुरप्यूचे वाचं निस्त्रिंशतोचिताम् । वामेतरकराङ्गुष्ठो निर्लूय मम दीयताम् ॥३१६॥ तन्निशम्य प्रसन्नास्यः कृतार्थंमन्यमानसः । सोऽसिधेनुकया छित्वा गुरवेऽङ्गष्ठमार्पयत् ॥३१७॥ पुष्पवृष्टिः सुरैर्मुक्ता तस्योपर्यपतत्तदा । गुरुभक्तिद्वितीयेन कः सत्त्वेन न रज्यते ? ॥३१८॥ द्रोणाचार्योऽपि साश्चर्यः प्रीतचेतास्त्रपानतः । तमाश्लिष्याभ्यधाद्वत्स ! दुष्करं कृतवानसि ॥३१९॥ अतःप्रभृति कोदण्डमङ्गुलीभिरपि स्फुटम् । आकर्षन्नपराद्धेषुः कदाचिन्न भविष्यसि ॥३२०॥ इति प्रीत्या तमाश्वास्य व्यावृत्तो वर्त्मनि व्रजन् । गुरुर्धनंजयेनैतद्विनयादन्वयुज्यत ॥३२१॥ तैस्तैः शिष्यगुणैः काममुपेतोऽपि प्रभो ! त्वया । असौ गुणैकगृह्येण कथं न ग्राहितः श्रमम् ॥३२२॥ इति पर्यनुयुक्तोऽथ द्रोणाचार्योऽप्यचीकथत् । शृणु कारणमत्रार्थे वत्स ! त्वं गुरुवत्सल ! ॥३२३॥ शस्त्रे शास्त्रे च केनापि मा स्म पार्थोऽतिशय्यताम् । इयं मम प्रतिज्ञाऽस्मिन्नवज्ञाहेतुतां ययौ ॥ ३२४॥ १. गुरुभक्तिः द्वितीया यस्मिन् तेन । २. स्खलितबाणः । [ १११ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy