SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ११०] [ पाण्डवचरित्रमहाकाव्यम् । एकलव्यस्य वृत्तान्तः ॥ ज्याकठोरप्रकोष्ठाङ्कं प्रशान्तं ब्रह्मचारिणम् । चिरं सम्भावयामास द्रोणस्तं सान्द्रया दृशा ॥ २९९ ॥ अब्रवीच्च कुतो वत्स सैष शिक्षाक्रमस्तव ? । न हीदृशं ममाम्नायं भवेत्कार्मुककौशलम् ॥३००॥ विहस्य गुरवेऽशंसदेकलव्यः कृताञ्जलिः । विदाङ्कुरुत मे विद्यां द्रोणाचार्याज्जगद्गुरोः ॥३०१॥ नासौ विद्योपदेशस्ते मत्तः किं भाषसे मृषा ? | यथार्थं भद्र जल्पेति गुरुस्तं भृशमभ्यधात् ॥३०२॥ एवमुक्तो विनीतात्मा पल्लीपतितनूरुहः । मृण्मयं दर्शयामास स द्रोणं द्रोणपार्थयोः ॥३०३॥ पार्थः पृथुलवेदिस्थां चम्पकैरचितार्चनाम् । तां गुरोः प्रतिमां वीक्ष्य वन्दते स्म मुहुर्मुदा ॥ ३०४|| एकलव्यं च पप्रच्छ भ्रातरावेद्यतां मम । आजगाम गुरुद्रोणः कुत्र ते नेत्रपात्रताम् ? ॥३०५॥ सोऽप्यस्मै कथयामास महाभाग ! मयैकदा । गुरुरभ्यर्थितश्चापशिक्षाहेतो रहः स्थितः ॥३०६॥ तदा विनयनम्रोऽपि योग्योऽयोग्योऽप्यहं सखे ! । हेतोः कुतोऽपि गुरुणा सर्वथाऽपि निराकृतः ॥३०७॥ गुरुपादाः प्रसादाय ध्यानाध्यक्षीकृता अपि । भवन्त्येवेति निश्चित्य प्रदेशेऽत्र समागमम् ॥३०८॥ साक्षादिव गुरुं पश्यन्नभ्यर्च्य प्रतिमामिमाम् । दिवानिशमिषूनस्यन्नभ्यासमहमादधे ॥ ३०९ ॥ नमोऽस्तु गुरवे तस्मै प्रसादाद्यस्य पश्यतः । मादृशो मलिनात्माऽपि विधत्ते चापचापलम् ॥३१०॥ यो हि स्मरणमात्रेण हन्ति संतमसं भृशम् । अवाप्नोतु गुरोस्तस्य तरणिः करणिं कथम् ? ॥३११॥ १. सदभ्यासं विना । २. ध्यानेन प्रत्यक्षीकृताः । ३. क्षिपन् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy