________________
[१०९
तृतीयः सर्गः । अर्जुनस्य खेदः ॥]
प्रत्यावृत्तस्ततः पार्थो विच्छायवदनः पथि । आगच्छन्नुच्छलन्मन्युर्मनस्येवमचिन्तयत् ॥२८६॥ कुन्देन्दुधवलैरेष मां पराजयते गुणैः । शङ्के शिष्यप्रसादोऽपि चक्रेऽस्य गुरुणाऽधिकः ॥२८७।। इति चिन्तामषीलेपश्यामलः साश्रुलोचनः । पार्थो व्यर्थश्रममन्यो गुर्वन्तिकमुपाययौ ॥२८८।। अथोन्नमय्य चिबुकं तं स्नेहाद् गुरुरब्रवीत् । दिनेन्दुवत्कथं वत्स ! वहसि म्लानमाननम् ? ॥२८९॥ कृतान्तः कुपितस्तस्य तस्य सन्निहितोऽशनिः । साक्षेपस्तक्षकस्तस्य निकारं ते चकार यः ॥२९०॥ यथार्थमवदत्पार्थः कः प्रभोऽन्यक्करोति माम् । किं केशरिकिशोरोऽपि केनचित्परिभूयते ॥२९१॥ किं त्वाश्लिष्य पुरा प्रोक्तस्त्वयाऽहं वत्स ! ते समः । मम शिक्षामधीयानो न धन्वी भविता परः ॥२९२॥ इति प्राक्सुकृताऽऽसाद्यात्प्रसादाद्यदुदीरितम् । वचस्तत् तेऽभवन्मिथ्या मनाति मम मानसम् ॥२९३॥ यत्ते शिक्षाग्रणीरेको मयाऽद्य ददृशे वने । अहं प्रभो ! पुरस्तस्य कलां नाप्नोमि षोडशीम् ॥२९४॥ उज्जगार गुरुर्वत्स ! शिष्यो मे नास्ति कश्चन । यस्त्वया हन्त तुल्योऽपि त्वयाधिक्ये तु का कथा ? ॥२९५॥ एवंवादिनमाचार्यमर्जुनो विनयान्वितः । एनं वो दर्शयामीति वदन् निन्ये तदन्तिके ॥२९६।। पादपान्तरितो भूत्वा तत्तादृक्तस्य लाघवम् । गुरुः प्रथममालोक्य जगाम पुरतस्ततः ॥२९७।। आयान्तमेकलव्योऽपि द्रोणमुद्वीक्ष्य दूरतः । आगत्य भूमिलुठनै-पतत्तस्य पादयोः ॥२९८॥
20
१. अपमानम् ।