SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 10 १०८] [पाण्डवचरित्रमहाकाव्यम् । एकलव्यस्य वृत्तान्तः ॥ सर्वातिशायिसद्बोधमकरन्दकरम्बिते । शिष्यप्रसूनपुञ्जेऽस्मिन्नर्जुनेनाम्बुजायितम् ॥२७३।। लक्ष्ये स्थिरे चले दूरेऽनपराद्धेषुमर्जुनम् । पश्यञ्जज्ञे सकर्णोऽपि कर्णो मनसि मत्सरी ॥२७४।। असौ साधारणः पन्थाः ‘पुत्रो भवति यत्प्रियः' । गुणैर्गुरोस्ततोऽप्यागात्प्रियतामर्जुनः पुनः ॥२७५॥ अवोचदेकदाऽऽचार्यो विनयावर्जितोऽर्जुनम् । कर्तास्मि त्वां गुणैरेभिर्जगत्येकधनुर्धरम् ॥२७६॥ प्रसादः स गुरोस्तच्च चापचातुर्यमद्भुतम् । पार्थस्येदं द्वयं बाढं बाधते स्म सुयोधनम् ॥२७७।। सद्गुणैः पाण्डवैः सार्धमुच्छलन्मत्सरौ तदा । कर्णदुर्योधनौ मैत्रीमन्वभूतां परस्परम् ॥२७८॥ . अनध्यायदिने क्वापि गोधाधारी धनुर्धरः । वने पुष्पकरण्डकाख्ये किरीटी क्रीडितुं ययौ ॥२७९॥ अपश्यत्तत्र तूणीवत्पूर्णास्यमफलैः शरैः । सारमेयममेयान्तविस्मयः कञ्चिदर्जुनः ॥२८०॥ अभूत्तस्य मनस्येवं तं वीक्षितवतस्तदा । अस्ति क्वापि प्रदेशेऽस्मिन्धुर्यः कश्चिद्धनुष्मताम् ॥२८१॥ अथासावग्रतो गच्छन्योग्यानिरतमुन्नतम् । एकं पुमांसमद्राक्षील्लक्ष्यभेदैककोविदम् ॥२८२॥ संधानाऽऽदानमोक्षेषु तस्य संप्रेक्ष्य लाघवम् । पार्थस्तं विस्मितोऽपृच्छत्कोऽसि त्वं कश्च ते गुरु: ? ॥२८३॥ सोऽवदद्भद्र ! पल्लीन्दोहिरण्यधनुषः सुतः । एकलव्याभिधानोऽस्मि पुलिन्दकुलसम्भवः ॥२८४॥ शस्त्रतत्त्वाम्बुधिद्रोणी द्रोणाचार्यश्च मे गुरुः । श्रूयते धन्विनां धुर्यः शिष्यो यस्य धनंजयः ॥२८५॥ 15 20 25 १. हस्तबन्धनचर्मपट्टकधारी । २. योग्यायां-शस्त्राभ्यासे निरतं-तत्परम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy