________________
तृतीयः सर्गः । अर्जुनस्य विनयः ॥ ]
व्याकुरुष्व तदेतेभ्यश्चापोपनिषदं निजाम् । स्थानन्यासेन विद्यायास्त्रैलोक्यप्रथितो भव ॥२६०॥ शालिबीजं च विद्यां च वप्तुकामैर्मनीषिभिः । 'सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते ॥ २६१ ॥ एतावद्भिर्दिनैरेते भित्तिवच्चित्रकर्मणाम् । मया त्वदुपदेशानामुपानीयन्त योग्यताम् ॥२६२॥ तथेत्यङ्गीकृते तेन गत्वा भीष्मान्तिकं कृपः । सर्वमावेदयामास द्रोणवृत्तान्तमादितः ॥२६३॥ द्रोणाचार्यमथाकार्य सत्कृत्य कनकोत्करैः । अर्पयामास गाङ्गेयः पौत्रान्ग्राहयितुं कलाः ॥२६४॥ तदा वैकटिकस्येव माणिक्येषु सुजातिषु । संस्कारस्तेषु सर्वेषु दिदीपे सुतरां गुरोः ॥ २६५ ॥ संयोगो गुरुशिष्याणामन्योन्यं प्रीतिशलिनाम् । तेषामत्यद्भुतः सोऽभूदिन्दुकैरवयोगवत् ॥ २६६ ॥ वृष्टिं मेघ इवाचार्यः शिक्षां समतया ददौ । सा त्वाधारवशाद्दध्रे परिणामं पृथक्पृथक् ॥२६७॥ उपदिष्टं धनुर्वेदं सर्वं वेत्ति स्म फाल्गुनः । विवेदानुपदिष्टं तु स्वयं शुश्रूषणं गुरोः ॥ २६८ ॥ धनंजयस्य गुर्वङ्गसंवाहनभवश्रमः । महान्तमपि हन्ति स्म शस्त्राभ्यासपरिश्रमम् ॥२६९॥
सुधास्वादु गुरोः पादपयः पीत्वा रजस्वलम् । निजां कपिध्वजश्चक्रे चित्रं प्रज्ञामनाविलाम् ॥२७०॥ विनयं कुर्वताऽत्यर्थमर्जुनेन विशेषतः । सर्वशिष्यप्रियस्यापि गुरोरावर्जितं मनः ॥२७१॥ गुरुभक्तिसुधासेकसंपत्त्या सितवाजिनः शिक्षावल्लिः फलस्फातिमाततानातिशायिनीम् ॥२७२॥
1
१. मणिपरिक्षकस्य । २. अर्जुनः । ३. अर्जुनस्य ।
[ १०७
5
10
15
20
25