________________
5
10
15
20
25
१०६ ]
[ पाण्डवचरित्रमहाकाव्यम् । द्रोणचार्यस्यागमनम् स्वागतम् च ॥ इत्युक्तैर्मण्डलीभूय सर्वैस्तैः परिवारितः । पार्थदत्तभुजालम्बः प्रविवेश द्विजः पुरे ॥ २४७॥
गृहाभिमुखमायान्तं तमालोक्य गुणालयम् । प्रत्युज्जगाम रोमाञ्चसंवर्मितवपुः कृपः ॥२४८॥ स्वच्छन्दनिर्यदानन्दबाष्पवीचिविलोचनः । पञ्चाङ्गालिङ्गितक्षोणिर्नमस्यति च तं कृपः ॥२४९॥ कृपं दृशा पिबन्सोऽपि प्रसारितभुजद्वयः । तथाऽऽलिङ्गद्यथा जातौ तावेकवपुषाविव ॥ २५० ॥ कृपः सिंहासने भक्त्या निवेश्य तमभाषत । अद्येदं मन्दिरं पूतं यदाक्रान्तं भवत्क्रमैः ॥२५१॥ संवत्सरे समग्रेऽपि वासरोऽयं सुवासरः । अवतारः सरस्वत्यास्त्वं यत्रातिथिरागतः ॥ २५२॥ अनमस्यत् कृपाचार्यमादरेण द्विजो युवा । अभ्यनन्दत्तमाशीर्भिः सोऽपि स्वजनवत्सलः ॥ २५३॥ कोऽयं महात्मा ? यस्येत्थं कुरुध्वे पर्युपासनाम् । इति राजसुतैः प्रष्टः कृपः पुनरवोचत ॥२५४॥ वत्साः ! सोऽयं गुरुर्द्रोणः कलानां कुलमन्दिरम् । अयमेव रहस्यज्ञो धनुः पारायणे पुनः ॥२५५॥ प्रख्यातः सूनुरस्यायमश्वत्थामेति नामतः । न परं पितरं मूर्त्या योऽनुचक्रे गुणैरपि ॥२५६॥ इत्याख्याय विसृष्टेषु कुमारेषु मुदा कृपः । द्रोणाचार्याय विदधावातिथ्यमतिथिप्रियः ॥ २५७॥ प्रसन्नमन्यदा द्रोणं व्याजहार रहः कृपः । प्रणयात्प्रार्थ्यसे किञ्चिन्नान्यथा कर्तुमर्हसि ॥ २५८॥ चापाचार्यस्त्वदन्योऽस्ति यथा न भुवनत्रये । तथाऽमीभ्यः कुमारेभ्यो नास्ति सप्रतिभः परः ॥२५९॥
१. नमस्यामास तं प्रतिद्वय० ।