SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १०४] [ पाण्डवचरित्रमहाकाव्यम् । कर्णार्जुनयोः कलाभ्यासः ॥ लघुसंधानविच्छेदप्रहारच्छेकबाहवः । तेषामभूवन्भूयांसः शस्त्रे सब्रह्मचारिणः ॥२२१॥ इतोऽभूत्तत्र वास्तव्यः संधर्मा विश्वकर्मणः । पुमानतिरथिर्नाम सदाचारैकमन्दिरम् ॥२२२॥ विधोरिवानुराधाऽभूत्तस्य राधा सधर्मिणी । कदाचिदपि या नैव ज्येष्ठोपास्तिमपास्थत ॥२२३॥ तयोः कर्ण इति ख्यातः सुतः सत्त्वैकभूरभूत् । यत्रौदार्यं च शौर्यं च द्वयं निःसीमतां गतम् ॥२२४॥ पङ्कोपमे कुले तस्मिन्परां वृद्धिमुपेयुषः । नलिनस्येव तस्यासीदुत्तमैरेव सङ्गतिः ॥२२५॥ कलाकूपारपाराय स्पृहयालुरहर्निशम् । स शिक्षां शस्त्रशास्त्राणामियेष गुरुसन्निधौ ॥ २२६॥ प्रणिपत्य कृपाचार्यमेत्य सोऽपि खलूरिकाम् । कुमारैः सममाधत्त शस्त्रश्रममनारतम् ॥२२७॥ कृपाचार्योपदेशाख्यस्वातिवर्षस्य सर्वतः । तेषु कर्णकिरीटिभ्यां मुक्ताशुक्तिपुटायितम् ॥२२८॥ आत्तेऽपि विद्यासर्वस्वे कृपाचार्यात्समंततः । किरीटिकर्णयोः : प्रज्ञा मनागपि न तृप्यति ॥२२९॥ क्रीडाजुषां कुमाराणां पुरीपरिसरेऽन्यदा । तदीयाघातभीत्येव कूपान्तः कन्दुकोऽपतत् ॥ २३०॥ विदधुर्विविधोपायान्कन्दुकाकर्षणं प्रति । परां क्लान्ति कुमारास्ते वृथारम्भास्तु लेभिरे ॥२३१॥ तेष्वेवं क्लिश्यमानेषु वर्षीयान्पथिको द्विजः । विप्रेण सममेकेन यूना कश्चिदुपागमत् ॥२३२॥ ततो जगदिरे तेन कुमारास्ते द्विजन्मना । एतस्य कन्दुकस्यार्थे कथं ताम्यत (थ) पुत्रकाः ? ||२३३|| १. सदृशाः । २. समानः । ३. कलासमुद्रपारगमनाय । ४. शस्त्राभ्यासभूमिम् । ५. अतिवृद्धः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy