________________
[१०३
तृतीयः सर्गः । कृपाचार्यस्य पार्वे कलाग्रहणार्थम् गमनम् ॥]
क्रमाज्जागरितो निर्भीर्भीमस्तानवहेलया । दूरेणापोहयन्नागाशिशुनागानिव क्षणात् ॥२०७॥ ततः सयोधनो दौष्ट्यादीमे भोक्तुमुपस्थिते । अज्ञातमशनस्यान्तविषमं विषमक्षिपत् ॥२०८॥ सद्य:प्राणहरे तस्मिन्दत्ते भीमं सुयोधनः । कृतान्तदन्तयन्त्रान्तर्गतवन्तममन्यत ॥२०९॥ प्रत्युतोर्जितमातेने तेन भीमस्य तत्क्षणात् । पुंसां जाग्रत्सु भाग्येषु विपत्तिरपि संपदे ॥२१०॥ क्रीडामात्रमिदं सर्वमेतस्येति विचिन्तयन् । भीमो न कोपमलिनं मनश्चक्रे मनागपि ॥२११॥ धृतराष्ट्रतनूजास्तु निष्फलारम्भदुःस्थिताः । तेजोभिः पाण्डुपुत्राणां दन्दह्यन्ते स्म केवलम् ॥२१२॥ विदित्वा विदुरस्तेषामेनमुच्छृङ्खलं कलिम् । विजने भीष्ममुख्यानां पुरस्तादिदमभ्यधात् ॥२१३॥ अमी वर्महराः सर्वे प्रतिभोत्कर्षशालिनः । कुमाराः समजायन्त तन्नोपेक्षितुर्महथ ॥२१४॥ कलाकलापोपनिषन्निषण्णमनसो यथा । एते भवन्त्युपाध्यायात् प्रयतध्वं तथाऽधुना ॥२१५॥ अस्त्वेषां कः कलाचार्यः सर्वविद्याब्धिपारगः । साकाङ्क्षमिति पृष्टस्तैराचष्ट विदुरः पुनः ॥२१६॥ अत्रैवास्ति कृपो नाम कलाचार्यः प्रसिद्धिभाक् । देवस्य शान्तनोनित्यं यत्रासीत्पुत्रवासना ॥२१७॥ स वः प्रार्थनया विद्वानेतानध्यापयिष्यति ।। लभ्यतेऽयमुपाध्यायः पुण्यैरत्यन्तपीवरैः ॥२१८॥ तत्समाकर्ण्य गाङ्गेयः कुमारान्निखिलानपि । समाकार्य कृपाचार्यमध्यापयितुमार्पयत् ॥२१९॥ अध्यगीषत ते शास्त्रं शब्दपारायणादिकम् । ततः प्रारेभिरेऽध्येतुं धनुर्वेदमनिविदः ॥२२०॥