SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [९९ तृतीयः सर्गः । पाण्डव-कौरवानाम् बालक्रीडा ॥] मातृणां च पितॄणां च तया वात्सल्यवत्तया । निर्विशेषं मनस्तेषु गुरवो हि समाशयाः ॥१५४॥ शैशवादप्यजायन्त पाण्डवाः परमार्हताः । यस्य यादृक्परो लोकस्तस्य चेष्टा हि तादृशी ॥१५५॥ दिवा वा यदि वा नक्तं भक्तिप्रह्वीकृता इव । चेतस्तेषां न मुञ्चन्ति पञ्चापि परमेष्ठिनः ॥१५६।। रंहस्वितापरीक्षार्थं निर्णीतपणपूर्वकम् । सहस्रतालमुत्तालास्ते कदाचिद्दधाविरे ॥१५७॥ गङ्गायाः पुलिने जातु सिकताकणकोमले । सर्वे कुमाराश्चिक्रीडुस्ते शश्वत्पांशुकेलिभिः ॥१५८॥ तुङ्गात्तटीविटङ्कात्ते जलकेलिकुतूहलात् । यमुनायां कदाचिच्च झम्पापातं वितेनिरे ॥१५९।। रंह:केलि-रज:केलि-जलकेलिषु लीलया । तान्बन्धूनधरीचक्रे बलोदारो वृकोदरः ॥१६०।। सदाऽवदातप्रकृतिर्धर्मात्मा धर्मनन्दनः । बबन्ध बन्धुषु स्नेहं विशेषेण सुयोधने ॥१६१॥ वत्सलोऽपि निसर्गेण बान्धवेषु वृकोदरः । क्रीडयाऽलोलयद्बालान्दुःशासनमुखानिति ॥१६२॥ क्षिप्ताः कदाचित्कक्षायां भीमेन भुजपीडनात् । श्वासावरोधदौस्थ्येन संस्थिता इव तेऽभवन् ॥१६३।। भीमः कदाचिदेतेषामन्योन्यं शिरसा शिरः । नालिकेरद्वयास्फालमास्फालयदनेकशः ॥१६४॥ धृत्वा कदाचित्पादाग्रे क्रोशमात्रां भुवं नयन् । नासाजानुललाटादौ त्वचयामास तानसौ ॥१६५॥ तान्बद्ध्वा बाहुपाशेन मज्जयित्वा चिरं जले । भीमः केलिप्रियो जातु मृतप्रायानमुञ्चत ॥१६६॥ 15 20 25 १. वेगवत्तापरीक्षार्थम् । २. विशेषेण इति प्रत्यन्तर । ३. मृता। .
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy