SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९८] [पाण्डवचरित्रमहाकाव्यम् । विदुरस्य चिन्ता ॥ निखिलस्य कुलस्यास्य क्षेमं चेत्कर्तुमिच्छसि । तदेनमेनसां पात्रं दुष्पुत्रं त्यक्तुमर्हसि ॥१४१॥ तनयेनापि किं तेन कुलप्रलयकारिणा ? । तेन हेम्नाऽपि किं कार्यमार्य ! कर्णौ छिनत्ति यत् ॥१४२॥ आसतां शतमेकोनमपि स्वस्तिकृतः सुताः । अल्पमल्पेतरस्यार्थे त्याज्यमित्थं विदुर्बुधाः ॥१४३॥ आम्बिकेयस्तदाकर्ण्य न यावत्प्रत्यभाषत । पाण्डुरुड्डामरप्रीतिस्तावद्विदुरमभ्यधात् ॥१४४।। ईदृशानि न लभ्यन्ते पुत्रभाण्डानि कुत्रचित् । ममोपयाचितैरेष जातो दुर्योधनः सुतः ॥१४५॥ क्षयः कुलस्य चेत्पुत्राद्वृद्धिस्तर्हि कुतो भवेत् । भानोश्चेद् ध्वान्तमाकाशे प्रकाशः स्यात्कुतस्ततः ? ॥१४६॥ युधिष्ठिरादपि ज्येष्ठः पूर्वं गर्भावतारतः । असौ राज्याब्जसविता भविता गोत्रवर्धनः ॥१४७॥ तच्छिवाः सन्तु पन्थानः स्वस्थानगमनाय वः । अभिधायेदमास्थानादुदस्थात् पाण्डुभूपतिः ॥१४८॥ दुर्योधनस्य दुःशल्या नाम यामिर्बभूव या । सिन्धूनामधिराजस्तामुपयेमे जयद्रथः ॥१४९॥ अथ ते धृतराष्ट्रस्य वर्धन्ते स्म शतं सुताः । दोष्णोर्येषां स्म जागति स्फूर्तिस्त्रैलोक्यतोलने ॥१५०॥ धार्तराष्ट्राः शतं पञ्च पाण्डवास्ते तु संहताः । शतं पञ्चोत्तरं स्वैरं रेमिरे हस्तिनापुरे ॥१५१॥ भीष्मं च धृतराष्ट्रं च पाण्डं च विदुरं च ते । प्रतिप्रभातमभ्येत्य नमस्यन्ति स्म भक्तितः ॥१५२॥ ततः सत्यवती पूज्यामम्बिकाऽम्बालिके तथा । अम्बा-गन्धारिका-कुन्ती-मुख्याश्च प्राणमन्नमी ॥१५३॥ 25 १. बहोः प्रयोजनाय । २. स्वसा ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy