SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [९७ 10 तृतीयः सर्गः । विदुरस्य सभासमक्ष कथनम् ॥] अनाधृष्यः कुण्डभेदी विराजी दीर्घलोचनः । प्रमथश्च प्रमाथी च दीर्घालापश्च वीर्यवान् ॥१२८॥ दीर्घबाहुर्महावक्षा दृढवक्षाः सुलक्षणः ।। कनकः काञ्चनश्चैव सुध्वजः सुभुजस्तथा ॥१२९।। विरजाश्चेत्यमी सर्वे रणकर्मविशारदाः । सर्वे शौण्डीरदोर्दण्डाः सर्वे सर्वास्त्रकोविदाः ॥१३०॥ धृतराष्ट्रोऽथ भीष्मादीनुपावेश्य परेद्यवि । मौहूर्तिकान्समाहूय पप्रच्छ स्वच्छमानसः ॥१३१।। आख्यातमशरीरिण्या भारत्या यद्युधिष्ठिरः । भविता भुवनश्लाघ्यो न कोऽप्यत्रास्ति संशयः ॥१३२।। किन्त्वनन्तरमेतस्माद्राजा दुर्योधनः किमु । भविष्यति न वेत्येवं ज्ञानेनालोच्य शंस नः ॥१३३॥ अत्रान्तरे दिगन्तेषु रजोभिः परिजम्भितम् । उदतिष्ठन्त निर्घाताश्चकम्पे च वसुन्धरा ॥१३४॥ शिवाश्चाशिवशंसिन्यो विरेसुर्विरसं तथा । मार्तण्डमण्डलं चाभूत्परिवेषेण भीषणम् ॥१३५।। एतानि दुनिमित्तानि प्रेक्ष्य तल्लक्षणानि च । ज्ञानिनः सर्वविदुरं विदुरं प्रत्यचीकथन् ॥१३६।। अयमूर्जस्वलो राजा राजचक्रविजित्वरः । भविष्यति परं कालः कुलस्य च जनस्य च ॥१३७|| इति नैमित्तिकादिष्टमनिष्टं विदुरस्ततः । सभासमक्षमाचख्यौ धृतराष्ट्रस्य शृण्वतः ॥१३८॥ तच्चाकर्ण्य विषं कर्णपुटयोरम्बिकासुतः । पुनःपर्यनुयुङ्क्ते स्म कुले शान्तिः कथं भवेत् ? ॥१३९॥ अथ संदेहसंदोहच्छिदुरो विदुरस्तथा । अप्रेयोऽपि वचः पथ्यं तथ्यं च तमुदाहरत् ॥१४०॥ 15 20 25 १. बलवान् । २. पृच्छतः इति प्रत्य० । ३. अप्रियमपि ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy