SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ९६ ] [ पाण्डवचरित्रमहाकाव्यम् । धृतराष्ट्रपुत्राणां नवनवतेर्जन्म ॥ अमी कुमाराः पञ्चापि दिविषत्पादपा इव । यशःकुसुमसौरभ्यसुभगाः ख्यातिमाययुः ॥११५॥ गान्धारीप्रमुखाश्चाष्टौ धृतराष्ट्रस्य याः प्रियाः । अजायन्त सुतास्तासां क्रमाद्दुर्योधनानुजाः ॥११६॥ पुत्राणां नवनवतिस्तेषां नामानि तद्यथा । आसीद्दुःशासनः पूर्वो दुःसहो दुःशलस्तथा ॥ ११७॥ रणः श्रान्तः समाढ्यश्च विन्दः सर्वंसहोऽपि च । अनुविन्दः सुभीमश्च सुबाहुर्दुष्प्रधर्षणः ॥ ११८ ॥ दुर्मर्षणः सुगात्रश्च दुष्कर्णो दुःश्रवास्तथा । वरवंशो विकीर्णश्च दीर्घदर्शी सुलोचनः ॥ ११९॥ उपचित्रो विचित्रश्च चारुचित्र: शरासनः । दुर्मदो दुष्प्रगाश्च युयुत्सुर्विकटाभिधः ॥१२०॥ ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ । चित्रबाणश्चित्रकर्मा सुवर्मा दुर्विमोचनः ॥१२१॥ अयोबाहुर्महाबाहुः श्रुतवान्पद्मलोचनः । भीमबाहुर्भीमबल: सुषेणः पण्डितस्तथा ॥ १२२॥ श्रुतायुधः सुवीर्यश्च दण्डधारो महोदरः । चित्रायुधो निषङ्गी च पाशो वृन्दारकस्तथा ॥ १२३॥ शत्रुञ्जयः शत्रुसहः सत्यसन्धः सुदुःसहः । सुदर्शनश्चित्रसेनः सेनानीर्दुष्पराजयः ॥१२४॥ पराजितः कुण्डशायी विशालाक्षो जयस्तथा । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥१२५॥ आदित्यकेतुर्बह्वाशी निर्बन्धोऽपि प्रयास्यपि । कवची रणशौण्डश्च कुण्डधारो धनुर्धरः ॥ १२६ ॥ उग्ररथो भीमरथः शूरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथाभिधः ॥१२७॥ १. महाभारते तु विविंशतिः । २. चित्रवर्त्मा । ३. प्रयाद्यपि ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy