SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । अर्जुनादीनाम् जन्म ॥ ] स्वयं सागरपर्यन्तां मेदिनीमनुपद्रवाम् । मण्डलीकृतकोदण्डाकर्तुमीहाम्बभूव सा ॥१०२॥ समयेऽपि समागत्य प्रजाः संहरतस्तदा । कृतान्तस्यापि सा कर्तुं स्पृहयामास निग्रहम् ॥१०३॥ सूर्याचन्द्रमसौ जातु यत्तुतोद विधुंतुदः । तस्मिन्नपि बभूवेयमभिषेणनकाङ्क्षिणी ॥१०४॥ इत्थं गर्भप्रभावोत्थधीरोदात्तमनोरथा । तनयं जनयामास सा मुहूर्ते मनोहरे ॥१०५॥ तदैव दिवि वाग्देवी सर्वतः शुश्रुवेतराम् । असावाराधितज्येष्ठो जगदेकधनुर्धरः ॥१०६॥ दुर्धर्षोऽत्यन्तसौम्यास्यः सामर्षो नयवत्सलः । भविष्यति क्रमात्कर्मनिर्मुक्तो मुक्तिवल्लभः ॥ १०७|| युग्मम् । [ ९५ तदनन्तरमाकाशे सङ्गीतमुदजृम्भत । रम्भोर्वशीप्रभृतयो नृत्यमप्सरसो व्यधुः ॥ १०८ ॥ जगुर्जगन्मनोहारिमूर्छनं किन्नरेश्वराः । अजायत पुनर्वाद्यनादाद्वैतं तथा दिवि ॥१०९॥ प्रदत्तत्रिदशानन्दे तस्मिन्नात्मजजन्मनि । प्रमोदकृतसंवादः पाण्डुश्चक्रे महोत्सवम् ॥११०॥ तं चकार स नाम्नाऽपि गुणैरजुनमर्जुनम् । इन्द्रस्य दर्शनात्स्वप्ने जातोऽसाविन्द्रसूरिति ॥ १११॥ अथ श्लाघ्यतमस्वप्नसूचितौ निचितौ श्रिया । युग्मलौ जनयाञ्चक्रे मद्रराजसुता सुतौ ॥११२॥ तावप्याकाशभारत्या कथितौ यद्भविष्यतः । सत्त्वशौर्ययुतौ सिद्धिगामिनौ गुरुवत्सलौ ॥११३॥ प्रदत्तया पितृभ्यां तौ विनीतौ नयशालिनौ । नकुलः सहदेवश्चेत्याख्यया ख्यातिमीयतुः ॥ ११४॥ १. राहुः । २. सक्रोधः । ३. जगतो मनोहारिणी मूर्छना यस्मिन् कर्मणि यथा स्यात्तथा । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy