________________
10
९४]
[पाण्डवचरित्रमहाकाव्यम् । पतन्तेनभीमेन शीला चूर्णीकृता ॥ तमुद्वीक्ष्य तयोरासीत्प्रीतिर्वाचामगोचरा । तौ समालोक्य बालोऽपि हर्षादुबाहु नृत्यति ॥८९॥ ऊर्ध्वमूर्ध्वं लसद्बाहुं भीममादाय वक्षसा ।। कुन्ती सानन्दमालिङ्ग्य चुचुम्ब प्रस्नुतस्तनी ॥९०॥ गतप्रत्यूहमुत्फुल्ललोचनं पाण्डुभूपतिः । बलादाच्छिद्य पत्नीतः सानन्दं सस्वजे सुतम् ॥९१॥ पृथा पप्रच्छ पृथ्वीशमार्यपुत्र ! द्रढीयसी । असौ शिला समग्राऽपि बिभिदे कणशः कथम् ? ॥९२॥ पार्थिवः कथयामास प्रिये ! तव तनूरुहः । वज्रकायोऽयमाख्यायि भारत्या ननु दिव्यया ॥९३॥ तदस्य वपुषा बाढं वज्रेणेवाभिताडिता । शिलेयं केलिशैलस्य चूर्णीभावमुपाययौ ॥१४॥ योऽपि खण्डीकृतो दृष्टः प्रस्तरोऽद्य त्वया पथि । तदापि त्वत्तनूजस्य तनूघातविजृम्भितम् ॥९५॥ तच्छ्रुत्वा विस्मितस्वान्ता कुन्ती कान्तिमुपेयुषी । आदाय दयिताद्भीममालिलिङ्ग मुहुर्मुहुः ॥९६॥ प्रपातभूमि भीमस्य भृङ्गारावर्जितै लैः । निषिच्य श्रेयसे वृद्धाः क्षणादानचुरक्षतैः ॥९७॥ ततो मुदितयोपात्तसुतया प्रियया समम् । उत्तम्भितध्वजां राजा राजधानीमुपाययौ ॥९८॥ अभ्रमूवल्लभारूढं निशाशेषे कदाचन । स्वप्ने महेन्द्रमद्राक्षीत्पृथा पृथुमनोरथा ॥९९॥ सा स्वप्नं कथयामास पत्युः प्रातः प्रमोदिनी । तस्यै सोऽपि समाचख्यौ शक्राभं भाविनं सुतम् ॥१००॥ ततः प्रीतिं परां प्राप्ता श्लाघ्यं गर्भ बभार सा । प्रातःकालोपलब्धो हि स्वप्नः सद्य:फलप्रदः ॥१०१॥
15
25
१. ऐरावणगजारुढम् ।