________________
९२]
[पाण्डवचरित्रमहाकाव्यम् । भीमस्य गिरेः पतनम् ॥ एवमुल्लाप्यमानस्य भीमस्योत्सङ्गसङ्गिनः ।। श्रमध्वंसाय धात्रीव निद्राऽभून्नेत्रगोचरा ॥६३॥ वने च विहरन्स्वैरममन्दानन्दकन्दलः । स्वयं चम्पकपुष्पाणां स्रजं जग्रन्थः पार्थिवः ॥६४॥ तामुपादाय दायादतुल्यां निजतनुश्रुतेः । आत्मसम्मुखमायान्तं कुन्ती कान्तं व्यलोकयत् ॥६५॥ त्वं कण्ठ ! वर्धसे दिष्ट्या प्रेम्णा प्रेयानिमां स्रजम् । यत् तुभ्यमुपनेतेति मुदः साऽभूद्वशंवदा ॥६६॥ पिबन्ती लोचनै थमभ्युत्तस्थौ झटित्यसौ । विस्मृतात्मा न चाबोधि भीममुत्सङ्गशायिनम् ॥६७॥ तदैव नृपतिः कान्ताकण्ठे चिक्षेप च स्रजम् । भीमोऽतिनिःसहवपुस्तदुत्सङ्गात्पपात च ॥६८॥ करौ व्यापारयामास पुत्ररक्षार्थमेकतः । स्रजोऽर्थे चान्यतः कण्ठं सा शोकप्रमदाकुला ॥६९॥ ततः शृङ्गाल्लुठन्बालो हाहारवमुखैर्जनैः । गण्डशैलकलां बिभ्रत्साश्रुनेत्रैरदृश्यत ॥७०॥ अधोऽधः पततस्तस्य शिलासोपानतः क्रमात् । प्रादुर्बभूवुष्ठात्काराः कुन्तीहन्मर्मभेदिनः ॥७१॥ पूर्वकायनता कुन्ती विलापतुमुला सुतम् । तत्पीडागमनायेव सिञ्चति स्माश्रुवीचिभिः ॥७२॥ पश्यतामेव सर्वेषां लोठं लोठं तटात् तटे । स बालः स्थूलपाषाणामुपागमदुपत्यकाम् ॥७३॥ प्लवंगमा इवोप्लुत्य जङ्घाला वायुरंहसः । तस्यानुपदमुत्तालमुत्तेरुनूपपत्तयः ॥७४॥ हा ! वत्स ! क्वासि ! दृश्योऽसि मया जीवन्पुनः कदा ? । दूरतः पेतुषो वत्स ! यद्वा ते जीवितं कुतः ? ॥७५॥
15
१. 'तुभ्यमेवोपनेतेति' इति प्रतिभाति । २. बिभ्रदश्रुने प्रति० । ३. जवाबलवन्तः ।