SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । पाण्डुकुन्त्योर्वसन्तक्रीडा ॥] मिथः कलिकरौ जातु जातु केलिपरायणौ ऐकामत्रभुजौ जातु तावभूतामनारतम् ॥५०॥ हासयन्नथ वासन्तीं चन्द्रिकाचन्दनाञ्चितः । मल्लिकामोदसुरभिः सुरभिः समजृम्भत ॥५१॥ वसन्तेनोपनीतानि प्राप्य चूताङ्कुरच्छलात् । नवान्यस्त्राणि पुष्पास्त्रस्तृणं जगदजीगणत् ॥५२॥ जगज्जिगीषोः पञ्चेषो: प्रयाणे जयशंसिनः । ध्वनयोऽदुन्दुभीयन्त मधुराः पिकयोषिताम् ॥५३॥ गलद्बहुलकिञ्जल्कपङ्किलीभूतभूतलम् । पुष्पडम्बरितं पाण्डुः क्रीडावनमथागमत् ॥५४॥ भीमं षण्मासदेशीयमादाय मधुराकृतिम् । पत्या सह ययौ कुन्ती वसन्तश्रियमीक्षितुम् ॥५५॥ विकाशिकेशरे पुष्पत्तिल चारुचम्पके । पल्या सार्धं वने राजा विजहार मनोरमे ॥५६॥ लीलयाऽपि क्षिपन्पाणि बालः सुलभचापलः । मूलादुन्मूलयामास विविधान्सविधद्रुमान् ॥५७॥ प्रियया सार्धमासाद्य दोलान्दोलनकौतुकम् । आरुरोह महीपालः सहेलः केलिपर्वतम् ॥५८॥ कुन्त्यपि प्रेक्षितुं शैलग्रामणी रामणीयकम् । समारोहद्वरारोहा पत्यानुपदिकी मुदा ॥५९॥ स्वैरमाराममारामं वापीं वापीं सरः सरः । सर्वमालोकयाञ्चक्रे गिरेस्तस्य नृपप्रिया ॥ ६०॥ पर्यन्तशिखरस्याग्रे समासादितजन्मनः । कङ्केलिपादपस्याधः सा विधत्ते स्म विश्रमम् ॥ ६१॥ कुरुवंशनवोत्तंस ! जगन्नेत्रसुधाकर ! । इत्थमुल्लापयामास भीमं कृत्वाऽङ्कखेलिनम् ॥६२॥ १. एकपात्रे भोजनं कुर्वन्तौ । २. कामः । ३. जेतुमिच्छो: । ४. समीपवृक्षान् । [ ९९ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy