________________
९०] [पाण्डवचरित्रमहाकाव्यम् । दुर्योधन-भीमयोः नाम स्थापनम् ॥
इदानीं तु सुतस्यास्य जीविताय यतामहे । इत्युक्त्वा ताभिरभ्यक्तः सर्पिषा तूलसञ्चयः ॥३७॥ तेन प्रावृत्य तां बालं स्वर्णकुंड्यां निधाय च । एकान्ते तं व्यवस्थाप्य निधानमिव दधिरे ॥३८॥ अथ सम्पूर्णसर्वाङ्गो मातुः स्तन्येन सोऽर्भकः । दधौ वृद्धि परां बालविटपीव घनाम्भसा ॥३९॥ असूत दिवसे यस्मिन्गान्धारी तं तनूरुहम् । तस्मिन्यामैस्त्रिभिः पश्चात्सुतं कुन्त्यप्यजीजनत् ॥४०॥ तयोर्भाग्यमहो भिन्नमप्येकदिनजातयोः । यदाद्योऽजनि दुर्लग्ने सुलग्ने कुन्तिसूः पुनः ॥४१॥ उद्दिश्य पाण्डुजन्मानमभून्नभसि भारती । विजयी वज्रकायोऽयमुद्दामबलमन्दिरम् ॥४२॥ भक्तः सहोदरे ज्येष्ठे जगद्विधुरबान्धवः ।। भावी मोहच्छिदाच्छेकः क्रमात्सिद्धिवधूवरः ॥४३॥ युग्मम् । प्रीता कुन्तीसुतेनैव दिवि देवा महोत्सवम् । चक्रुश्चकार पाण्डुस्तु युगपत्सुतयोर्द्वयोः ॥४४॥ दुर्योधन इत्याद्यस्य भीम इत्यपरस्य च ।। धृतराष्ट्रश्च पाण्डुश्च पुत्रयो म चक्रतुः ॥४५॥ भीमस्यातोऽभवन्नाम मरुत्तनय इत्यपि । स्वप्ने कल्पद्रुमव्याजाद्दत्तोऽसौ मरुता यतः ॥४६॥ पञ्चभिर्लालितौ यत्नाद्धात्रीभिर्मातृवत्सदा । तौ क्रमाज्जग्मतुर्वृद्धि पञ्चास्यपृथुकाविव ॥४७॥ रिङन्दुर्योधनः पश्चादेत्य भीमेन रिङ्खता । बलिना बालचापल्याद्धृत्वा पादे व्यकृष्यत ॥४८॥ कदाचिच्च स भीमेन प्रीत्या मात्रा समर्पितम् । भक्ष्यं हठेन हस्ताग्रादाच्छिद्योच्चैररोद्यत ॥४९॥
15
20
१. सिंहकिशोरकौ ।