________________
८८]
10
[पाण्डवचरित्रमहाकाव्यम् । गान्धारी दुष्ट चिंतनम् ॥ गर्भाविर्भावितस्थामजनितोत्साहसाहसा । अमन्दोन्माद्यदानन्दा सा दिनान्यत्यवाहयत् ॥११॥ इतश्च गर्भदौरात्म्यात्कृतैरौपयिकैरपि । गान्धारी प्रसवं प्राप न मासैस्त्रिंशताऽपि हि ॥१२॥ उदरं बिभ्रती दूरमलिञ्जरसहोदरम् । क्लेशावेशवशाच्चित्ते गान्धारीदमचिन्तयत् ॥१३॥ अहो ! मे दत्ततापस्य पापस्य परमो विधिः । यदेतन्नारकं दुःखमिहैवानुभवाम्यहम् ॥१४॥ यत्त्वीदृशं पुरस्तान्मे कुन्ती सुतमजीजनत् । पश्य सर्वंकषस्याऽऽपि सा दुःखस्यापि चूलिका ॥१५॥ अधुनाऽपि निराधिर्यन्निकटप्रसवा पुनः । तन्मामन्तःशितैः कुन्तैः कुन्ती हन्ती प्रतिक्षणम् ॥१६॥ इति चिन्तापरस्वान्ता नितान्तं दुःखविह्वला । उदरं ताडयामास सा शीघ्रप्रसवाथिनी ॥१७॥ पीडोत्पीडकृताबाढमाधिना ताडनेन च । अभूदपरिपूर्णोऽपि गर्भस्तस्यास्तदा बहिः ॥१८॥ मांसपिण्डोपमं सा तं पश्यन्ती साश्रुलोचना । विषादमासदद्दूरं दत्ते क्रुद्धो विधिर्न किम् ॥१९॥ त्वं मे मनोरथानित्थं किं निकृन्तसि निष्कृप ! । इति दैवमुपालभ्य लब्धातिः सा मुहुर्मुहुः ॥२०॥ विस्रेण मांसपिण्डेन किमनेन ममाधुना ? । इत्युत्स्स्रष्टुं समारेभे सा बहिस्तमवज्ञया ॥२१॥ अथ ज्ञातप्रबन्धाभिरेत्य वृद्धाभिरादरात् । प्रत्यषिध्यत सा बाढं मा मा मेत्युक्तिपूर्वकम् ॥२२॥ अजल्पंश्च पपातेदं पुत्ररत्नं तवोदरात् । अभाग्येनार्धनिष्पन्नं वायुनेव तरोः फलम् ॥२३॥
15
20
25
१. महत् । २. ऽवधि इति साधुः । आपि-आप्ता, मयेति शेषः ।