________________
तृतीयः सर्गः । कुन्ती द्वितीयगर्भः ॥ ]
[ ८७
तृतीयः सर्गः ॥
धर्मकल्पद्रुमस्याथ पुनरेव फलार्थिनी । नासिक्येऽकारयत्कुन्ती श्रीचन्द्रप्रभमन्दिरम् ॥१॥ प्रदीपा यत्र निस्त्रासनानामणिविनिर्मिते । प्रभाध्वस्ततमः स्तोमे मङ्गलायैव केवलम् ॥२॥ प्रसादभुक्तिरात्मीया नासिक्यमिति तत्र सा । गत्वा गत्वा पुनश्चक्रे जिनधर्मप्रभावनाम् ॥३॥ धर्मकर्मैकनिर्माणव्यसनव्यवसायिनी । पुनरापन्नसत्त्वाऽभूत्पाण्डुराजसधर्मिणी ॥४॥ तस्याः स्वप्नेऽक्षिपद् वृक्षभञ्जनोऽथ प्रभञ्जनः । आनीय नन्दनोद्यानादङ्के कल्पमहीरुहम् ॥५॥ पत्ये शशंस सा स्वप्नमेनमेनोविनाकृता । तदर्थमर्थिकल्पद्रुस्तत्पुरः सोऽप्यचीकथत् ॥६॥ पवमानोपमानास्ते बलिष्ठैकशिरोमणिः । प्रदत्तजगदाश्वासो भविता तनयोऽद्भुतः ॥७॥ इत्याकर्ण्य दधौ साऽन्यं हर्षरोमाञ्चकञ्चुकम् । उत्कल्लोलं भवेच्चेतः श्रुतेऽपि तनुजन्मनि ॥८॥ उत्पाटयामि शैलेन्द्रमपि निर्दलयामि वा । तस्याः प्रादुरभूदेवं स्फूर्तिर्गर्भानुभावतः ॥९॥ दूरमुज्जागरौजस्का वज्रमप्यङ्गुलीमुखैः । सा तदा पक्वकर्पूरकणचूरमचूरयत् ॥१०॥
१. त्रासो मणेर्दोषविशेषः । २. एनः पापं तद्रहिता । ३. स्वप्नभावम् । ४. अङ्गुल्यग्रैः ।
5
10
15
20