________________
5
८६ ]
[ पाण्डवचरित्रमहाकाव्यम् । कुन्ती - प्रमोदकारणम् ॥ बान्धवा मम जीयासुर्जीयासुर्बन्धुसूनवः । ममाशिषमिमां तेषां प्रियंवद ! निवेदयेः ॥४८२ ॥ इत्थमाभाष्य सत्कृत्य कुन्त्या कृत्येषु दक्षया । कोरकः प्रोद्गतप्रीतिर्गमनाय व्यसृज्यत ॥४८३॥ युधिष्ठिरकुमारोऽपि बालकल्पाङ्घ्रिपोपमः । मातृवात्सल्यपीयूषैः पोषितो ववृधे क्रमात् ॥४८४॥ अव्यक्तवर्णरमणीयवच:प्रचारो रिङ्खन्कदाचन कदाचन पादचारी । नव्योल्लसद्दशनहास्यमनोहरास्यः कस्य प्रतिक्षणमभून्न मुदे कुमारः ? ॥४८५॥
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये 10 कृष्णनेमिजन्मद्वारिकास्थापनयुधिष्ठिरजन्मवर्णनो नाम द्वितीयः सर्गः ॥२॥
१. 'मालप्य' इति प्रति० ।