________________
शक्यते ।
रस सम्प्रदायः - रससिद्धान्तस्य प्रतिष्ठा नाट्याचार्य भरतस्य समये सञ्जाता । भरतस्य नाट्यशास्त्रमेव रससिद्धान्तस्य प्राचीनतम ग्रन्थः । ग्रन्थेऽस्मिन् शताब्दिभिः प्रवर्तितकाव्यशास्त्रीय विवेचनस्य सारः समाहितोऽस्ति । विद्वज्जनैरिदमपि स्वीक्रियते यदयं ग्रन्थो रससिद्धान्तस्य प्रवर्तकग्रन्थो नास्ति अपितु विकासोद्योतकः । भरतात् पूर्वमपि सम्प्रदायस्यास्यानेके प्राचार्याः समभवन् । यथावासुकिः, सदाशिवः, अगस्त्यः, व्यासः, नन्दिकेश्वरः, वृद्धभरतादि ।
"ह्यष्टौ रसाः प्रोक्ता द्रुहिणेन महात्मना" कथनेनानेन द्रुहिणनामकाचार्यस्यापि समुल्लेखः समवाप्यते । राजशेखरस्य काव्यमीमांसायां काव्यपुरुषस्य चर्चेपलभ्यते । तत्रायमुल्लेखोऽस्ति यत् काव्यपुरुषेण काव्यशास्त्रस्य विभिन्नाधिकरणानामुल्लेखनाय अष्टादशपट्टशिष्याः नियोजिताः । एतेषु रसाचार्यो नन्दिकेश्वरः नाट्याचार्यरूपेण भरतस्य - 'रूपकं निरूपणीयं भरतः रसाधिकारं नन्दिकेश्वरः । किन्तु नन्दिकेश्वरस्य सम्प्रति कापि कृतिनैवोपलभ्यते । यत्र तत्रोल्लेखे सत्यपि प्रामाणिकग्रन्थानामभावे वयं कथयितुं शक्नुमो यत्-नाट्यशास्त्रमेव साम्प्रतिको रससिद्धान्तविचारस्य श्राद्यग्रन्थः, रससिद्धान्त
साहित्यरत्नमञ्जूषा - २१६