________________
दायः स्वकीयं महत्त्वं प्रतिपादनाय प्रयत्नशीलः । अलंकारसर्वस्वस्य समुद्रबन्धटीकायां पञ्चकाव्यसम्प्रदायानामुल्लेखः तावदेवं समुपलभ्यते
"इह विशिष्टौ शब्दाथौं काव्यम् । तयोश्च वैशिष्ट्यं धर्ममुखेन, व्यापारमुखेन, व्यंग्यमुखेन चेति त्रयः पक्षाः । आद्ये प्यलंकारतो गुणतो वेति द्वैविध्यम् । द्वितीयेऽपि भणिति वैचित्र्येण भोगकृत्वेन वेति द्वविध्यम् । इति पंचसु पक्षेष्वाद्यः उद्भटादिभिरङ्गीकृतः । द्वितीयो वामनेन तृतीयो वक्रोक्तिजीवितकारेण चतुर्थो भट्टनायकेन पञ्चम आनन्दवर्धनेन ।”
उद्धरणेऽस्मिन् क्षेमेन्द्रस्यौचित्यसिद्धान्तस्य समुल्लेखो न वर्तते तमपि स्वीकृत्य साम्प्रतं काव्यस्य मूलतत्त्वात्मानमनुसृत्य षट् सम्प्रदायाः सन्ति । के च ते सम्प्रदाया इति जिज्ञायासां तेषां स्वरूपम् अनुक्रमेणेह प्रदर्श्यते
(१) रससम्प्रदायः (२) अलंकारसम्प्रदायः (३) रीतिसम्प्रदायः (४) वक्रोक्तिसम्प्रदायः (५) ध्वनि-सम्प्रदायः (६) औचित्यसम्प्रदायः
सर्वेषामेतेषां सम्प्रदायानां सुगमव्याख्यानाभिलाषया प्रत्येकस्य विषयगाम्भीर्यं स्फोरयितुमस्माभिरेवं प्रयतितु
साहित्यरत्नमञ्जूषा-२१८