________________
॥ अथ पञ्चमः परिच्छेदः ॥
अमृतमयी निरन्तर-निरर्गल-निर्मल-नीरप्रवाह इव परिपूताऽस्माकं भारतीयधरा । सर्वस्वरूपा संस्कृतसाहित्यविद्या तदीयज्ञानज्योतिविद्योतितान्तःकरणैः सुर-सरस्वती-समुपासकैस्सुविदितचरमेतद् यत् काव्यस्य मूलतत्त्वानां पर्यालोचनेन काव्यमान्यताविभेदैः विभिन्नानां कविसम्प्रदायानां समुदयः समजनिः। एतेषां सर्वेषां साम्प्रदायिकविभेदानां कारणं काव्यस्य मूलतत्त्वमेव वरीवति । अयं भारतदेशः प्रारम्भादेव आत्मवादी अस्ति ।
आत्मनः शोधः प्रतिष्ठा च निगमागमकालादेव सुष्ठुतया व्यवस्थिता अस्ति.। आत्मा आनन्दस्वरूपोऽस्ति एतदेव सम्प्राप्य मनुष्य आनन्दमग्नो भवति । आत्मानन्द इव काव्यमपि आनन्ददायकमास्ते। अतएव काव्यशास्त्रिभिः काव्ये आनन्दस्वरूपात्मनः प्रतिष्ठां विधातु सुचेष्टितम् । एनं महत्त्वपूर्ण विषयं पर्यालोच्य सूक्ष्मचिन्तनदृष्ट्या-रसः, रीतिः, ध्वनिः, अलंकारः, वक्रोक्तिः, औचित्यम् इति षट्सम्प्रदायाः प्रकीर्तिताः । प्रत्येकोऽपि काव्यशास्त्रीयसम्प्र
साहित्यरत्नमञ्जूषा-२१७ -