________________
प्रवर्तकश्च भरत इति । नाट्यशास्त्रस्य षष्ठे सप्तभे चाध्याये रसविकल्पकता, भावव्यञ्जकता च सुतरां स्फुटीभवति ।
'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः ।' इति रससिद्धान्तविषये भरतमुनेः सूत्रम् । साहित्ये रसानां महत्त्वं स्फुटतरं स्वयंसिद्धञ्चास्ति, यतो हि काव्यस्य मूलतत्त्वं रस एव । विभिन्न ष्वपि काव्यसम्प्रदायेषु रसस्य महत्ता जागति । ___ध्वन्याचार्यैरपि वस्तुध्वनिः, अलङ्कारध्वनिः, रसध्वनिश्च स्वीकृताः किन्त्वत्र रसध्वनेः प्राधान्यं स्वीकृतम् । रसोक्त : महत्त्वपूर्ण स्थानं मन्यमानेन भोजराजेनोक्तम्
वक्रोक्तिश्च रसोक्तिश्च स्वभावोक्तिश्च वाङ्मयः। सर्वासु ग्राहिणी तासु रसोक्ति प्रतिजानीते ॥
आलंकारिकैः रससत्ता रसवदाद्यलंकाररूपेणैव स्वीकृता । प्राचार्यभामहोऽलङ्कारवादी सोऽत्र मनुते । यदुत्तमकाव्यायालंकारतत्त्वमनिवार्यम् । अस्य मते रसो गौणः, अलङ्कारेष्वेवान्तर्भूत इति-उक्तञ्च काव्यालङ्कारेरसवद्दशितस्पष्ट शृंगारादि रसं यथा ।
(काव्यालंकार ३/६)
साहित्यरत्नमञ्जूषा-२२०