________________
रसापकर्षका दोषाः, त्रिधा शास्त्रेषु वगिताः । शब्दार्थरसभेदैस्तु मयाऽप्यास्मिन् नियोजिताः ॥ ६॥
निरर्थका लक्षणहीना -ऽश्लील कर्णकटूक्तयः । नेयार्था - ग्राम्य-संदिग्धा ऽवाचकाः शब्ददूषरणम् ॥ १० ॥
/
अपुष्टाः कष्टबोध्याश्च, ग्राम्याः पौनरुक्तयः । निर्हेतुकाश्च सम्प्रोक्ताः, साहित्ये दोष हेतवः ॥ ११ ॥
काव्ये रसस्य वैचित्र्यं, तत्र दोषोऽक्षमो मतः । यस्यार्थे काव्यसंसृष्टिः, दोषस्तत्र कथङ्करः ॥ १२ ॥
रसानां स्थायिभावानां स्वशब्दोक्तिश्च दूषरणम् । कष्टेन यदि सम्प्राप्तिः, सोऽपि तद्विधमाश्रितम् ॥ १३ ॥
1
वर्णनीयरसापेक्षो, विभावादि न चेद् भवेत् । तदा दोषो रसे चोक्तः, काव्यतत्त्वमनीषिभिः ।। १४ ।।
रसादेः पौनरुक्त्या च समुद्दीपनमन्यथा । सोऽपि दोषत्वमायाति, काव्ये रसविघातनात् ॥ १५ ॥
देशकालविरुद्धञ्च,
रसविस्तारदर्शनम् ।
साहित्ये सरसे सोऽपि दोषत्वेन च वरितः ॥ १६ ॥
साहित्यरत्नमञ्जूषा - २१४