________________
प्रकाण्डे रसविच्छेदः, प्रकृतीनां विपर्ययः । एतावपि रसे दोषी, वरिणतौ धीश्वरैः परः ॥ १७ ॥ शरीरिणोऽङ्गतुल्या स्याद् रीतिः काव्यशरीरके। सेयं सुप्तिङ्पदैर्युक्ता, रसोत्कर्षकरी मता ॥ १८ ॥ वैदर्भी चाथ गौडी च, पाञ्चाली लाटिका पुनः। काव्यशास्त्रे सुविख्याता, चतस्रोऽपि रसद्धिका ॥१६॥ माधुर्यधुर्य-संयुक्ता, ललितैर्वर्णविराजिता । अल्पवृत्तिरवृत्ति-र्वा, वैदर्भी रीतिरुच्यते ॥ २० ॥ प्रोजो गुणगणैर्युक्ता, क्लिष्टवर्णसमाकुला । समास-सधना गौडी, रीतिरुक्ता सुधीश्वरैः ॥ २१ ॥ प्रसादगुरण-संश्लिष्टा, सुकुमारा च माधुरी। पाञ्चाली रीतिराखिलैश्चचिता काव्यसंसदि ॥२२॥ लघुसमासयुक्ता या, भूयिष्ठा ललिता वरा । लाटी च रीतिर्वैदर्भी, पाञ्चाल्योर्मध्यमा मता ॥ २३ ॥ काव्यशोभाकराः प्रोक्ताः, अलङ्कारा मनीषिभिः। शब्दार्थोभयभेदैश्च, पुनर्भेदत्वमागताः ॥२४॥ चतुर्थेऽस्मिन् परिच्छेदे, गुण-दोषादिवर्णनम् । रीत्यलङ्कारसंयुक्त, युक्तियुक्तया च योजितम्॥२५॥
साहित्यरत्नमञ्जूषा-२१५ .