________________
* चतुर्थपरिच्छेदस्य सारांश: *
कवितासरिता सृष्टौ रसे प्राधान्यमारितम् । रसापकर्षका दोषाः, उत्कर्षाय गुरणा मताः ।। १ ।।
सरसता कीदृशैः शब्दे - रथैर्भावैश्व सम्मता । रम्यता लौकिका ह्लाद जनिका भवति सर्वदा ॥ २ ॥ स्मारं स्मारञ्च साहित्यं, लालित्यैर्लसितं वरम् । लक्षणे दक्षवृत्तीनां लक्षणं लक्ष्यलक्षितम् ॥ ३॥
साहित्यलक्षणग्रन्थे, काव्योत्कर्षकरा गुणाः । प्रोजः प्रसादमाधुर्य भेदैस्त्रेधा च सम्मताः ॥ ४॥
-
माधुर्य तत्र शृङ्गारे, करुणे शान्ते सुवर्णितम् । वर्गान्त्यवर्णसंयुक्त, टठडढैश्व वर्जितम् ॥ ५ ॥
ह्रस्वस्वरसुसंयुक्तौ रणावल्प समासकाः । ललिता रचना रम्या, माधुर्ये सुसमाहिता ॥ ६॥
,
चित्तात्साहकरं प्रोक्तं प्रोजः कर्मसु कौशलम् । वीर- बीभत्स - रौद्रे -ध्वोजोऽतिशयवन् मतम् ॥ ७ ॥
चित्ते प्रसन्नता येन, संयाति सहसा द्रुतम् । तं प्रसादं विजानीयात्, रसोत्कर्षकरं परम् ॥ ८ ॥
साहित्यरत्नमञ्जूषा - २१३