________________
यत्र वर्णनीयाः प्रस्तुताः अवर्णनीया अप्रस्तुताः प्रस्तुताऽप्रस्तुतानां प्रकृताऽप्रकृतानां गुणेन क्रियया च साम्ये तुल्यत्वे वा दीपकमलङ्कारः । प्रकृतधर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयतीति दीपकम् ।
अथवा दीप इव दीपकम् “संज्ञायां कन्" इतीवार्थे कन् प्रत्ययः । यथा प्रासादार्थमारोपितो दीपकः वीथ्यामुपकरोति, दीपसाम्याद् दीपकाख्योऽलङ्कारोऽपि प्रकृतमपि उपकरोति । प्रस्तुताप्रस्तुतनिष्ठ - साधारणधर्म - कथनं दीपकत्वम् । उदाहरणं यथा
"सुधयेन्दु यथा भाति तथैव जिनशासने ।" अत्र दीपकाख्योऽलङ्कारः वर्त्तते ।
अत्र येऽतिप्रसिद्धाः अलङ्काराः साहित्यग्रन्थे कथितास्तेऽत्र प्रकाशिताः । विशेषार्थिना विशिष्टग्रन्थाः श्रीकाव्यानुशासन-काव्यप्रकाश-साहित्यदर्पणादयो विलोकनीयाः ।
॥ इत्यर्थालङ्काराः ॥ ॥ दृश्य-श्रव्यकाव्यनिरूपणम् ॥ अत्र संक्षिप्तं दृश्य-श्रव्य काव्यनिरूपणं निरूप्यते"दृश्य-श्रव्यत्वभेदाभ्यां, द्विविधं काव्यलक्षणम् । अभिनेयं यत् तद् दृश्यं, रूपारोपाद्धि रूपकम् ॥१॥
साहित्यरत्नमञ्जूषा-२०७ ,