________________
३२- काव्यलिङ्गालङ्कार :- वाक्यपदार्थत्वे वाक्यस्य पदार्थस्य वा हेतुत्वे व्यङ्गय काव्यलिङ्गालङ्कारो भवति । यत्र नूतनस्य नवस्यार्थस्य बोधको वाचः पदवाक्यरूपस्य अर्थः स्यात् तत्र 'काव्यलिङ्गाऽलङ्कारः' स्यात् ।
समर्थनसापेक्षस्यार्थस्य यत्र पदद्वारा वाक्यद्वारा वा समर्थनं भवति तत्र काव्यलिङ्गाऽलङ्कारः । एवं च पदार्थहेतुकतया वाक्यार्थहेतुकतया च काव्यलिङ्गस्य द्वौ भेदौ भवतः । अन्यच्च काव्याभिमतं लिङ्ग काव्यलिङ्गम्, तर्कवैलक्षण्यार्थ-काव्यग्रहणम् न हि यत्र व्याप्तिपक्षधर्मतः उपसंहारादयः क्रियन्ते, तत्र काव्यलिङ्गाऽलङ्कारो भवति । लक्षणम्"काव्यलिङ्ग भवेत् यत्र, हेतोः वाक्यपदार्थता । विजितो कामसन्दोहः, मच्चित्तेऽस्ति जिनोत्तमः ॥ १॥
कामस्य सन्दोहः वेगः विजितः कारणं यत् मच्चित्ते मन्मनसि जिनोत्तमः जिनेश्वरः अस्ति, अतः कामस्य प्रभावो निष्फलः । श्रोजिनेश्वरस्य प्रभोः हृदि वर्तमानत्व वर्णनेन तस्य समर्थनात् काव्य लिङ्गालङ्कारो वाक्यार्थहेतुकः ।
३३- दीपकम्-"वर्णनीयावर्णनीयानां तुल्यत्वे दीपकं स्मृतम् ।"
साहित्यरत्नमञ्जूषा-२०६