________________
अन्तादियमक- प्राद्यन्तयमक, एतत्समुच्चय- मध्यादियमक, श्रादिमध्ययमक, उभयसमुच्चय, अन्त्यमध्य, मध्यान्तिक, अन्त्य मध्यान्तसमुच्चयादयो बहवः भेदा: । स च श्लोकश्लोकार्द्ध पाद पादांशभेदेनानेकधा तत्र श्लोकयमकं महायमकं कथ्यते । यमकस्योदाहरणं यथाभव्याम्भोजविबोधनैकतरणि-विस्तारिकर्मावली, रम्भासामजनाभिनन्दनमहानष्टापदाभासुरैः भत्तया वंदितपादपद्मविदुषां सम्पादयप्रोज्झिता, रम्भासामजनाभिनन्दनमहानष्टापदाभासुरैः ॥१॥ (३) वक्रोक्तिः - श्लेषवक्रोक्तिकाकुभ्यां वाच्यान्तरकल्पनम् । श्लेषश्च काकुश्चेति ताभ्यां यत्र वाच्यान्तरस्य कल्पनं क्रियते तत्र वक्रोक्तिः । अन्याभिप्रायेण वाक्यमन्यार्थकतया श्लेषेण काक्वा श्लेषेण वाऽन्यार्थे योजयेत् तत्र वक्रोक्तिः । यथासद्वाः प्रेयसि ! दीयतां प्रियतम ! द्वारं किमुच्छाद्यते, सत्कं सुन्दरि ! याचितं कथय मे, किं कस्य सत्कं प्रिय । श्रीनाभेयजिनस्य मज्जनजलं कस्त्वं जनः किं जलं, दम्पत्योरिति जल्पितं जिनपतेः स्नात्रोत्सवे पातु वः ॥
-
विज्ञप्तित्रिवेण्यां यथा
कुन्थु कान्त ! नमस्कुरु प्रियतमे ! कः क्षुद्रजन्तु नमेत् । बत्तः ! श्रीतनयं वदाभि मदनः, किं नैष सूरात्मजः ॥ किं मन्दोऽयमयि प्रभो! नहि जगत्प्रद्योतकस्तीर्थकृत् । दम्पत्योरिति वक्रवाक्यविषयः पुण्यात् सुखान्येष वः ॥
साहित्यरत्नमञ्जूषा - १८०