SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अत्र अन्यदीयान्यार्थकं योजितम् । सभङ्गश्लेषेणार्थान्तरकल्पनाद् वक्रोक्तिः श्लेषभूता । काकुवक्रोक्तिः काले कोकिलवाचाले, सहकारमनोरमे । कृतागसः परित्यागात्, तस्याश्चेतो न दूयते ॥ इत्यत्र न दूयते अपितु दूयत एवेति काक्वा वक्रोक्तिः श्रीकुन्तकाचार्यो वक्रोक्तिजीवितग्रन्थे सर्वेषामलङ्काराणां वक्रोक्त्यलङ्कारे समावेशं चके । "वक्रोक्तिः काव्यजीवितम्" इत्यपि च तेन तत्रैवोक्तम् । 'वक्रोक्तिजीवित' ग्रन्थस्य तृतीयोन्मेषे वाक्यवैचित्र्यवक्रता द्रष्टव्या । (४) भाषासमः- "अनेक - विधास्वपि भाषासु एकविधैरेव वाक्यैर्यत्र रचना विधीयते तत्र भाषासमालङ्कारः भवति ॥" तस्योदाहरणं यथा संसार - दावानल - दाह - नीरं, संमोह - धूली - हरणे समीरम् । माया - रसा - दारण - सार - सीरं, नमामि वीरं गिरि - सार - धीरम् ॥ १ ॥ अस्मिन् श्लोके संस्कृत - प्राकृतभाषाद्वयोः समानता वर्तते। साहित्यरत्नमञ्जूषा-१८१ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy