________________
यमकः भिन्नार्थस्य स्वरव्यञ्जनसङ्घस्य यथैकधा समुच्चारणं तथैव पुनरुच्चारणं 'यमकालङ्कारः' । अथवा 'यम्यते इति यमकम्' । भिन्नार्थवर्णसमूहावृत्तित्वं 'यमकत्वम्' |
यमौ द्वौ समजातौ तौ तत्प्रकृतियमकम् । अनुप्रासे वरर्णावृत्तेः स्थाननियमो नास्ति । यत्र तु वरर्णावृत्तेः स्थाननियमोऽस्तीति द्वयोर्भेदः । क्वचिद्वर्णभेदेऽपि श्रुतिसाम्येन यमकं भवति । तदुक्तम्
यमकादौ भवेदेक्यं, डलयोर्रलयोर्बवोः । शषयो नंणयोश्चान्ते, सविसर्गाविसर्गयोः ॥ सबिन्दुकाबिन्दुकयोः स्यादभेदप्रकल्पनम् ॥
यमकं हि एकस्मिन् द्वयोश्चतुर्षु वा पादेषु प्रयोक्तव्यं न तु पादत्रये । यमकं तु विधातव्यं न कदाचिदपि त्रिपात् । उदाहरणं यथा- " स्तबकं स्तबकं माधुर्यं माधुर्यं" इति पादान्तवर्णावृत्तेः सत्वात् । काव्यप्रकाशादौ यमकस्य अनेकभेदाः व्याख्याताः । तथाहि मुख- सन्देश प्रवृत्ति गर्भ - सन्दृष्ट- पुच्छ - पंक्ति परिवृत्ति युग्मक समुद्रकमहायमकं इत्यादय एकादशभेदाः । पाद - भागवृत्तियमकेषु, द्विखण्डीकृतेषु विंशतिः त्रिखण्डीकृतेषु त्रिंशत्, चतुःखण्डीकृतेषु चत्वारिंशद् भेदाः । स्थानपरिवर्त्तने च
साहित्यरत्नमञ्जूषा - १७९
-
-
-
-
-