________________
उपका शत्रुजी संप्राप्ता चित्रभूमिकाभेदान् । रञ्जयति काव्यरङ्ग नृत्यन्ती तद्विदां चेतः ॥ उपमेयोपमानन्वय-प्रतीप - स्मरण - रूपक, सन्देह, दीपक, प्रतिवस्तूपमा दृष्टान्त - निदर्शना व्यतिरेक सहोक्ति - समासोक्ति - श्लेष - अप्रस्तुतप्रशंसा इत्यादयः अलङ्काराः उपमा भूमिकाभेदात् एव उत्पन्नाः ।
·
काव्यादर्श दण्डिना पञ्चत्रिंशद् अलङ्काराणां विवेचनं कृतम् । भामहेन एकोनचत्वारिंशद् अलङ्काराणां वर्णनं कृतम् । उद्भटेन चत्वारिंशद् अलङ्काराणां विवेचनं कृतम् । वामनेन त्रयस्त्रिराद् अलंकाराः प्रदर्शिताः । रुद्रटेन द्विपञ्चाशत् अलङ्काराः कथिताः । मम्मटेन काव्यप्रकाशे सप्तषष्टिः अलङ्काराः प्रदर्शिताः । श्रलङ्कारसर्वस्वे एकाशीति, एषु षट् शब्दालङ्काराः दर्शिताः । चन्द्रालोके शतमलङ्काराः प्रदर्शिताः । कुवलयानन्दे चतुर्विंशत्यधिकशतमलङ्काराः कथिताः कलिकाल सर्वज्ञ श्रीमद् हेमचन्द्रसूरीश्वरेणापि षट् शब्दालङ्काराश्च शतमलङ्काराः प्रदर्शिताः सन्ति ।
सामान्यलक्षणेन श्रलङ्काराणां विवेचनं क्रियतेऽत्र । काव्येऽलङ्कारिकस्य प्रसिद्धया वा प्रौढिवशेन प्रौढिकल्पनया वा शब्दार्थयोः चमत्कारश्च मनोहरशब्दार्थयोः विन्यासः हारादिवत् पुरुषस्य काव्येषु अलङ्कारो भवति । शब्दाना
साहित्यरत्नमञ्जूषा - १७२