________________
ञ्चार्थानां च यः कविप्रसिद्धया वा तस्य प्रौढिकल्पनया मनोहरः सनिवेशः क्रमशः शब्दगतोऽर्थगतश्च अलङ्कारः, न तु हारादिवत् पुसः पृथग्भूतः । अनुप्रासादेः शब्द एवान्तर्भावात्, उपमादेश्चार्थे, हारादिवदिति दृष्टान्तस्तु रमणीयता मात्रे न तु सर्वांशो गुणानां मनोहररूपतया सन्निवेशरूपत्वे ऽपि न अलङ्कारत्वम् । यत् तेषां तत्त्वेनाप्रसिद्धेरिति भावः केषाञ्चिद् आचार्याणां मतम् । वस्तुतः हारादिवदित्यनेन अलङ्काराणां काव्यात् पृथग्भावः प्रदर्शितः । तेन गुणालङ्कारभेदोऽपि संघटते ।
अत्र प्राचीनकविप्रसिद्धाः अन्ये प्रौढिकल्पिता अपि अलङ्काराः सन्ति, इति सूचयन्ति ।।
अलङ्काराणां शब्दार्थगतत्वनिश्चयस्त्वन्वयव्यतिरेकानु विधायित्वेन बोध्यः । समानार्थकशब्दपरिवर्तनेऽपियोऽलङ्कारो वर्त्तते सोऽर्थनिष्ठः । अन्यथा तु शाब्दः स इति शब्दार्थनिष्ठबोधको हेतुर्दोषालङ्कारादीनाम् । कविप्रसिद्धप्रौढयन्तरजनित-हारादि-दष्टान्तो भूतचमत्कृतिजनकशब्दार्थान्यतरसन्निवेशत्वमलङ्कारत्वम् । यथा- काव्यप्रकाशे अलङ्कारलक्षणम्
उपकुर्वन्ति तं सन्त-मङ्गद्वारेण जातुचित् । हारादिवदलङ्कारास्ते-ऽनुप्रासोपमादयः ॥८२-६७॥
साहित्यरत्नमञ्जूषा-१७३